SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ मुख्यमन्त्रोद्वारः किरीटकौस्तुभधरं कर्पूरालिप्तविग्रहम् । सूर्यायुतसहस्राभं सर्वदेवनमस्कृतम् ॥ ७६॥ [ लक्ष्म्यादीनां भगवद्रूपे नित्यसानिध्यम् ] लक्ष्मीः कीर्तिर्जया माया देव्यस्तस्याश्रितास्सदा। स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः॥ ७७॥ सूर्यस्य रश्मयो यद्वदूर्मयश्वाम्बुधेरिव । सर्वैश्वर्यप्रभावेन कमला श्रीपतेस्तथा ॥ ७८ ॥ नानाविशेषलक्ष्मीभिः कोटिसङ्ख्याभराता । कीर्तिस्तथाविधेर्देव (नैव ? ) विधिना विग्रहे विभोः ॥ ७९ ॥ तमास्ति यन्न हि तया व्याप्तं सामान्यदेहया । यस्य या च यदा कीर्तिस्स्वसामर्यात्मजायते ॥ ८ ॥ सा सा विप्र स्मृता सर्वा विशेषपतिपत्तिभिः । जया जयेश्वरस्यैवं व्याप्तिमावेन संस्थिता ॥ ८१ ॥ या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु । भगवन्माययोडूवां तां विद्धि परमां तु वै ॥ ८२ ॥ तदीयं निष्कळं रूपं मुक्त्वा वै पारमार्थिकम् । कोऽस्मिस्तत्त्वोदधौ चास्ति चतुर्धा मुनिसत्तम ।। ८३ ।। भगवच्छक्तिभिस्सम्यगाभिर्योगविभागतः। स्वालोकज्ञानसामर्थ्यात्साकारत्वमुपागताः ॥ ८४ ॥ [लक्ष्म्यादीनां ध्यानप्रकारः] ध्यातव्यास्साधकेन्द्रेग यस्य स्त्रीश्च(स्त्रियश्चास्य ?)स्वसिद्धये । एकवक्त्रा द्विनेत्राश्च द्विभुजाश्चारुकुण्डलाः ।। ८५ ॥ पद्मगर्भनिभाः कान्ता मेखलादाममण्डिताः । श्वेतमाल्याम्बरधरा हारकेयूरभूषिताः॥८६॥ सर्वलक्षणसंपमाः पीनोन्नतपयोधराः। प्रबुद्धोत्पलविस्तीर्णलोचनाश्च स्मिताननाः ॥ ८ ॥ चलतिरेफपटलतुल्ययुक्तास्तथाऽलकैः। ललाटतिलकैश्चितैर्विवियैः परिमण्डिताः ॥ ८८ ॥ आरक्ताधररक्ताश्च वंशमुक्ताफलद्विजाः । अर्धचन्द्रललाटाश्च श्लक्ष्णकुञ्चितमूर्धजाः ॥ ८९ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy