SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प. 8 ] शुद्धसर्गब्रह्मतत्त्वाख्यानम् उदासीनवदासीनो गुणानां गुणशुक् ततः । सर्वदाऽन्तर्गतस्यैव कुम्भस्य च यथोदकम् ॥ ८७ ॥ तथा सर्वस्य जगतो बहिरन्तर्व्यवस्थितः । घटसंस्थं यथाssari नीयमानं विभाव्यते ॥ ८८ ॥ नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च । चलाचलत्वमेवं हि विभोश्चैवानुमीयते ॥ ८९ ॥ बहुष्वम्बुजपत्रेषु वेधं कुर्वन्क्रमात्क्रमात् । कालवच्चातिसूक्ष्मत्वान सदाऽप्युपलभ्यते ॥ ९० ॥ अज्ञानाच्चातिदूरस्थं ज्ञानात्सम्भाव्यते हृदि । यदा तदा समीपस्थं स्वसंवेद्यविदात्मकः ॥ ९१ ॥ आकाशस्य (शःस ?) च यो वायुस्तद्वयोरप्यभेदतः (दिता ?) तथा तस्य (स्या ?) विभक्त्यैक्यं भूतानां हि परस्य च ॥ ९२ ॥ चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः । पूरिताः परमेशेन रसेनौषधयो यथा ॥ ९३ ॥ एकेनाभिन्नरूपेण भूतभृत्वेन हेतुना । यथैव सूर्याघीने तु प्रकाशतमसी द्विज ॥ ९४ ॥ तद्वत्सृष्टिं ससंहारां स्वतन्त्रः मकरोति च । प्रकाशो ज्योतिषां तच्च श्रोत्रादीनां यथा मनः ॥ ९५ ॥ शब्दादिके न संदृष्टे 'तथाऽपि श्रुणुतेऽन्यथा । तमसोऽन्यो यथाऽलोकचाज्ञानात्तत्परस्तथा ॥ ९६ ॥ ज्ञानं तदेव ज्ञेयं च बह्नेर्ज्याला यथैव हि । वर्णैर्विरहितं सर्वैर्नीरूपत्वात्सितादिकैः ।। ९७ । मधुरादिरसैस्तद्वत्कल्पनारहितं यतः । मयूरकण्ठवत्सर्वैर्वर्णैस्तदुपचर्यते ॥ ९८ ॥ अनुभावाद्रसानां च तथा सर्वरसात्मकः । सर्ववर्णरसैर्हीनो युक्तश्चातस्स्मृतोऽच्युतः ।। ९९ ।। सर्वज्ञस्सर्ववेचत्वाद्दर्शस्सर्वत्र दर्शनात् । साम्यात्सर्वेश्वरश्चैव यतस्सर्वज्ञतादिभिः ॥ १०० ॥ 1 aatft C. L. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy