SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ४] शुद्धसर्गब्रह्मतत्वाख्यानम् श्रीमगवान् - [ ज्ञानस्य द्वैविध्यम् , तयोः क्रियाख्येन सत्ताख्यस्य निष्पत्तिः ] ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् । सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन मवेद्धतिः॥४०॥ नारदःज्ञानं क्रियात्मकं तावद्वद कीदृग्विधं प्रभो । येनाभ्यस्तेन सत्ताख्यं ज्ञास्यामि ब्रह्मसिद्धिदम् ॥ ४१ ॥ [क्रियात्मकस्य यमनियमभेदेन द्वैविध्यम् ] ___ श्रीभगवान्द्विविधं च क्रियाज्ञानं पूर्व नियमलक्षणम् । यमाख्यं परमं चैव तच्च स्वाभाविकं स्मृतम् ॥ ४२ ॥ निवर्त्य नियमाख्यं तद्यमयुक्तं च सिद्धिदम् । नारदःएतयोलक्षणं ब्रूहि यदायत्तं परं पदम् ॥ ४३ ॥ विस्तरेण जगन्नाथ भवाब्धिपतितस्य मे । [ यमनियमनिरूपणम् ] श्रीभगवान्शुचिरिज्या तपश्चैव स्वाध्यायश्रुतिपूर्वकः ।। ४४ ॥ अक्रूरताऽनिष्ठुरता क्षमा चैवानपायिनी। सत्यं भूतहितं चैव यदबाधा परेष्वपि ॥ ४५ ॥ परस्वादेरहिंसा च चेतसो दमनं महत् । इन्द्रियाभ्यवहार्याणां भोगानामपि चास्पृहा ॥ ४६ ॥ आसने शयने मार्गे असक्तिश्चापि भोजने । हृद्तं न त्यजेद्धथानमानन्दफलदं च यत् ॥ ४७॥ आत्मशक्त्या प्रदानं च सत्यं वाक्यमनिष्ठरम् । अमित्रेषु च मित्रेषु समा बुद्धिस्सदैव हि ॥ ४८ ॥ आर्जवत्वमकौटिल्यं कारुण्यं सर्वजन्तुषु ।। एतदङ्गान्वितो यो यो यमो यमनियामकः ॥ ४९ ॥ [ क्रियाख्यात्सत्ताख्यनिष्पत्तेब्रह्माभिन्नज्ञानोदयः, तेन ब्रह्मोपसम्पत्तिः ] एवं क्रियाख्यात्सत्ताख्यं ज्ञानं प्राप्नोति मानवः । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy