SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २] ब्रह्मसर्गाख्यानम् अथ ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः । ऋषय ऊचु:अज्ञानपङ्कमनानां त्वं गति! महामुने । पुरा यथोक्तं विभुना मुनेब्रह्मात्मजस्य च ॥१॥ तत्सर्व विस्तरेणाद्य यथावद्वक्तुमर्हसि । [ नारदो ब्रह्मणः पुत्रो भवबन्धविमुक्तये ] ॥२॥ शाण्डिल्य:स्वमात्मानं पुरस्कृत्य सद्भक्ताय(ना?)हिताय च । पादपद्मे हरेः स्मृत्वा स्तु(न?)त्त्वा च शिरसा सह ॥३॥ पाञ्जलिः प्रयतो भूत्वा पोत्फुल्लवदनेक्षणः । प्रणयात्मणतो भूत्वा द्वन्द्वोपद्रवशान्तये ॥ ४ ॥ उपसङ्गम्य चरणाविदं स्तोत्रमदीरये(दैरय?)त् । [ नारदकृता भगवत्स्तुतिः ] नारदःनमोऽस्तु परमेशाय कारणाय पराय च ॥ ५ ॥ सहस्रशिरसे तुभ्यं सहस्रचरणाय च । सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम ॥ ६ ॥ सहस्रसूयंवपुषे सहस्रन्दुगभस्तये । नमः परमहंसाय परात्परतराय च ॥७॥ सत्त्वरूपाय शान्ताय नमो विश्वायनाय च । भवाय भवहर्ने' च सर्गस्य प्रभवाय च ॥८॥ नमः कनकगभोय सर्वदेहभृते नमः । त्रयीत्रयमयाधाय नमस्ते परमात्मने ॥ ९ ॥ हृदम्बुजगुहावासपरव्योमान्तशायिने । भक्तियोगविदभ्यासग्राह्याय खलु ते नमः ॥१०॥ मीनो निमीलिताक्षस्त्वं कूर्मस्त्वं च नगोद्वहः । त्वया रूपं च कृत्वाऽऽयं विधृतं भूमिमण्डलम् ॥ ११ ॥ भयाभये त्वयैकस्यां नरसिंह्मतनौ धृते । 1 भरें. A 2 गन्धाय. s For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy