SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [प. १ जयाख्यसंहिता गर्भाधानादिकाः सर्वे संस्कारा नित्यकर्म च । नैमित्तिकं च श्राद्धादि कर्तव्यं तैरतन्द्रितैः ॥ ११९ ॥ आचारेणैवामुनैवाहं भवामि प्रीतिमानसः । शर्करासहितेनेव क्षीरेण कमलासन ॥ १२० ॥ प्रसन्दं चैत्रमासे तु स्वेन रूपेण मां विभुम् । । पूर्णिमायामिहागत्य त्वं मामाराधयानघ ॥ १२१ ।। प्रत्यहं रात्रिकाले तु शेष: फणभृतां वरः।। अमाकृतेन रूपेण मां समाराधयिष्यति ॥ १२२ ।। इति देवेन संदिष्टः परतत्रमना विधिः । तथैव तत्स्वयं प्रीत्या निरवर्तयदादरात् ॥ १२३ ।। देवावतारसमये विमानमतुलप्रभम् । सर्वदेवमयं दिव्यमग्निमध्यात् समुत्थितम् ॥ १२४ ।। तथैव देवदेवस्य वरदस्य निदेशतः । भूतले वास्तुविधिना प्रतिष्ठामध्यगम्यत ॥ १२५ ॥ दिव्यालयस्य निर्माणपकारो विश्वकर्मणे । देवादेशाद्विरिश्चेन स्फुटमेवात्यदिश्यत ॥ १२६ ॥ स तस्याज्ञां वहन्मूची तदादिष्टेन वर्मना । आलयं निर्ममे दिव्यं तेनैव प्रत्यवेक्षितः ॥ १२७॥ मूलमत्रत्रयात्मत्वाद्देवदेवस्य सन्निधौ । प्रणवेन समं पूर्व सोपानत्रयमास तत् ॥ १०८ ॥ षडक्षरस्य मत्रस्य स्मारणाय रमापतेः। अर्धमण्डमभागे षद् सोपानानि चकार सः ॥ १२९॥ चतुर्विशतितत्वात्मा चतुर्विंशतिसंख्यका । गायत्रीसंमिता पश्चात् सोपानावलिराबभौ ॥१३०॥ अथ द्वयाख्यं परमं मत्रराजमनुस्मरन् । सोपानयोद्वयं दीमं निर्ममे निर्ममान्तरः ॥१३१ ।। मणतातिहृतो मत्रे दिव्ये देवस्य तोषणे। दशवर्णा इति व्यक्तीकुर्वन् दश तताऽकरोत् ॥ १३२ ।। बहुनाऽत्र किमुक्तेन देवदेवालयो महान् । उक्तानां भगवच्छास्ने लक्ष्मणां लक्ष्यतां ययौ ॥ १३३॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy