SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसहिता प. १ इति संबोधिता देवा गतक्षोभाः प्रजापतिम् । सारार्थावगमात्तुष्टाः साधु साध्वित्यपूजयन् ॥ ५९ ॥ श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम् । तथा तत्र महायज्ञे विधानां शतमुत्थितम् ॥ ६० ॥ देवदेवो रमानाथः कृपया परया मुदा । सर्वान्मशमयामास प्रत्यूहान् समुपस्थितान् ॥ ६१ ॥ अथ काले बहुगुणे वपाहोमोचिते तदा । आविरासनिमित्तानि मनोहारीणि सर्वशः ॥ ६२ ॥ मेषमासे सिते पक्षे चतुर्दशतमे तिथौ । शोभने हस्तनक्षत्रे रविवारेण संयुते ।। ६३ । प्रातः सवनकालीने वपाहोमे समापिते । तां वपामधरे गृह्णन्ननेराविरभूद्धरिः।।६४ ॥ सूर्यकोटिमतीकाशे तप्तकारीस्वरोज्वले । विमाने पुण्यकोव्याख्ये श्रीभूमिसहितः प्रभुः ॥६५॥ पश्चिमाभिमुखो दीप्तकिरीटमकुटोज्ज्वलः । ऊर्ध्वपुण्ड्रोल्लसत्फालपट्टो राजीवलोचनः ॥६६॥ तिलप्रसूनसौभाग्यनासाकल्पलतान्वितः । प्रवालखण्डसुषमामोषदक्षाधरोष्ठवान् ॥ ६७॥ कम्बुगम्भीरकण्ठान्तलेम्बिकौस्तुभविभ्रमः । श्रीवत्सवक्षा हारश्रीशोभमानभुजान्तरः॥ ६८ ॥ पञ्चायुधोल्लसदाहुचतुष्टयमनोहरः । सप न करेणोचैर्वहनभयमुद्रिकाम् ॥ ६९ ॥ गदा चापं च वामेन पाणिना परिभूषयन् । कटिबन्धे धरन्दिव्यं नंदकं खङ्गमुत्तमम् ॥ ७० ॥ पीताम्बरलसन्नाभिगह्वरोज्वलविह्वलः (ग्रहः ?)। कामारामीयकदलीकेळीचोरोरुभास्वरः ॥ ७१ ॥ मुकुराकारजान्त्यलावण्यप्रसराद्भुतः। कळाचिकारुचिस्पर्धिजड्डाद्वितयसुन्दरः॥७२॥ पद्मसौभाग्यसर्वस्वहारिपादमनोहरः । करुणारसपूर्णाम्यामीक्षणाभ्यां चतुर्मुखम् ।। ७३ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy