SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपाञ्चरात्रे जयाख्यसंहिता. शास्त्रारम्भप्रयोजनं नाम प्रथमः पटलः । नमः सकलकल्याणदायिने चक्रपाणये । विषयार्णवमनानां 'समुद्धरणहेतवे ॥१॥ [शास्त्रावतरणम्.] सुसिद्धपूजिते स्थाने देवब्रह्मर्षिसेविते । तपस्विजनसङ्कीर्णे पुण्यकृद्भिनिषेविते ॥ २ ॥ तीर्थोत्तमे प्रभासे वै यत्र सशिहितः सदा । विश्वात्मा भगवान् विष्णुलॊकानुग्रहकृत्पभुः ॥ ३॥ तत्र शुश्रूषणपरः पित्रादिगुरुसन्ततेः । नित्यमेवापवर्गार्थी विरागी वीतमत्सरः ॥ ४ ॥ संवर्तकः कान्तिनिधिदृष्ट्वा मनं स्वकं वपुः । प्राञ्जलिः प्रणतो भूत्वा और्व पितरमब्रवीत् ॥ ५ ॥ संवर्तकःसंसारार्णवमग्नस्य ममोपायो हि कथ्यताम् । यं ज्ञात्वा न पुनर्जन्म स्यान्ममान्यस्य कस्यचित् ॥ ६ ॥ और्व:पुरा कृतयुगे वत्स मत्पूर्वैः संयमस्थितैः। वेदवेदाङ्गपारझै ऋषिभिश्च तपोधनैः ॥ ७ ॥ केनापि चात्मभावेन एतदालोचितं तु वै। बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥ ८॥ - 1 सद्यस्तरण. A 2 सुसिद्ध. A 3 प्रभासे च. A 4 योऽभि. A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy