SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ ज्योतिर्विज्ञानशब्दकोषः ऊननवतिप०-नवनवतिः, एकाद् ऊनवतिः, एकाननवतिः, एकोननवतिः, नवनवतिः (स्त्री०)। नवतिप०-एकाधिकोननवतिः, नवतिः, नवतिका, नवती (स्त्री०)। दशनवकम्, नवदशकम्, अष्टादशपञ्चकम् (त्रि०), नवदशत परिमाणमस्य। एकनवतिप०-एकनवतिः, एकाधिकनवति: (स्त्री)। द्विनवतिप०-द्वानवतिः, द्विनवतिः, द्वयधिकनवतिः (स्त्री)। त्रिनवतिप०-त्रयोनवति:, त्रिनवतिः, त्र्यधिकनवतिः (स्त्री०)। चतुर्णवतिप०-चतुर्णवति:, चतुरधिकनवतिः (स्त्री०)। पञ्चनवतिप०-पञ्चनवतिः, पञ्चाधिकनवतिः (स्त्री०) ऊनविंशत्पञ्चकम् (त्रि०)। षण्णवतिप०-षण्णवतिः, षडधिकनवतिः (स्त्री०), दन्तत्रिकम्, द्वादशाष्टकम्, रदत्रितयम् (त्रि०)। सप्तनवतिप०-सप्तनवतिः, सप्ताधिकनवति: (स्त्री०)। अष्टनवतिप०-अष्टनवतिः, अष्टानवतिः, अष्टाधिकनवतिः (स्त्री०)। एकोनशतप०-ऊनशतम्, एकाद् ऊनशतम्, एकानशतम्, एकोनशतम्, एकादशनवकम् (त्रि०) नवनवतिप०(स्त्री०), देवत्रयम्, सुमनस्त्रितयम् (त्रि०)। शतप०-शतम् (न०), दशतिः (स्त्री०), दशदशकम् (त्रि०), दशदशतः परिमाणमस्य। शतवाचकशब्दाः-इन्द्रयज्ञाः, दशकृति:, दशवर्गः, धृतराष्ट्रपुत्राः, पद्मदलानि, पुरुषायूंषि, रावणाङ्गुल्यः, शतभिषक्तारकाश्चैते शतवाचकाः शब्दाः। विंशत्युत्तरशतद्वयस्य षट्त्रिंशदुत्तरशतद्वयस्य वा पर्यायः-महाराजिका: (पुं०ब०)। षष्ट्युत्तरशतत्रयपर्यायाः-भगणभागाः, भगणलवा:, भगणांशका:, भगणांशाः, भचक्रभागाः, भचक्रलवा: भचक्रांशकाः, भचक्रांशाः। सहस्रप०-सहस्रम्, दशशतम्, दशघ्नशतम् (त्रि०)।। सहस्रवाचकशब्दाः-अनन्तशीर्षाः, अर्जुनहस्ता:, इन्द्रचक्षूषि, जाह्नवीपथा:, पद्मदलानि, भागीरथीवक्त्राणि, रविकराः, रविबाणा:, वेदशाखाश्चैते सहस्रवाचका: शब्दाः सन्ति। द्विशतपर्याया:-द्विशतम्, शतद्वयम्, शतयुगम् (न०)। त्रिशतप०-त्रिशतम्, शतत्रयम् (न०)। द्विसहस्रप०-द्विसहस्रम्, सहस्रद्वयम् (न०)। अयुतप०-अयुतम् (न०), दशसहस्राणि (न०ब०)। पूर्णार्थकैकप०-आदिम: (पुं०),आदिमा (स्त्री०), आदिमम् (न०), आद्य: (पुं०), आद्या (स्त्री०), आद्यम् (न०), 'प्रथमः (पुं०), प्रथमा (स्त्री), प्रथमम् (न०), प्रथमा = प्रतिपदा तिथिविशेषः। पूर्णार्थकद्विप०--'द्वितीय: (त्रि०), द्वितीया (स्त्री०), ति०वि०। - (१) 'पहिला = पहिली' इति भाषा। (२) दूसरा = दूसरी इति भाषा। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy