SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदाङ्गत्वं सार्थकं भवति । षडङ्गेषु ज्योति:शास्त्रस्य मुख्यत्वमपि भास्करेण निगदितम्। यथा वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चिद् करः।। उक्तकथनात् पूर्वमेव लगधेण वेदाङ्गेभ्यो ज्योति:शास्त्रस्य वरिष्ठता प्रतिपादिता वर्तते। यथा यथाशिखा मयूराणां नागानां मणयो यथा। तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि वर्तते।। अतोऽनेनेदं सिद्धं यद् वेदाङ्गेषु ज्योतिषशास्त्रस्य सर्वातिशायि श्रेष्ठत्वं वर्तते। एवं 'दैवाधीनं जगत् सर्वम्' इति तथा ‘ग्रहास्ते देवतांशका:' इति वचनस्वरशात् सकलं जगद् ग्रहाधीनमेवास्ति। वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं चरमचरञ्च जीवनं स्थैर्य च प्रत्यहं त्रिकालं वहति' इत्यनेनैव लोकै: रविरूपास्यते। तेषां ख-खेचर-भू-भूधर-त्रिदशदानव-मानवानां स्थितमिति-गतिज्ञानं ज्योतिषशास्त्रमन्तरा न केवलं दुर्घटमसम्भवमप्यस्ति। यथा नहि नेत्रं विना किञ्चिदपि जनो निरापदं स्वीयमभिलषितं पदं गन्तुं शक्यते तथा ज्योतिषशास्त्रं (नेत्रं) विना जगत: श्रेयोमार्गः कथमपि न सम्भवतीति।। एवमन्यशास्त्रसन्देहास्पदमप्रत्यक्षञ्च, परञ्च ज्यौति:शास्त्रं प्रत्यक्षं युक्तियुक्तञ्चाध:स्थकथनेनेदं प्रकटयति अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्। प्रत्यक्षं ज्योतिष शास्त्रं चन्द्राऽौं यत्र साक्षिणौ।। अथ काश्यपवचनादष्टादशर्षय: ज्यौतिशास्त्रप्रवर्तकाः सन्ति । सूर्यो पितामहो व्यासो वशिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ।। लोमश:पोलिशश्चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशाश्चैते ज्योति:शास्त्रप्रवर्तकाः ।। तथा सूर्यसिद्धान्तवचनाच्च दिव्यं चक्षुर्ग्रहाणां दर्शितं ज्ञानमुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम् ।। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy