SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः केशवे तु-पुष्ययुक्ता पौर्णमासी मासे पौषी च सा पुनः। इति। माघासितपक्षीयपर्वनामानि (४) तत्र सङ्कष्टहरचतुर्थी, अङ्गारकचतुर्थी। (११) तत्र षट्तिलैकादशी। (३०) तत्र अमायाम्-द्वापरादिः।। माघसितपक्षीयपर्वनामानि (१) तत्र प्रतिपदि-वल्लभजयन्ती। (४) तत्र तिलचतुर्थी। तस्याम्-गौरीव्रतम्, वरदव्रतम्। (५) तत्र पञ्चम्याम्-वसन्तपञ्चमी। (६) तत्र सूर्यषष्ठी। (७) तत्र सप्तम्याम्-मन्वादिः, अचलासप्तमी, पुत्रसप्तमी, रथसप्तमी। (८) तत्र भीष्माष्टमी। (९) तत्र द्रोणनवमी। (११) तत्र जयैकादशी। -(१२) तत्र वराहद्वादशी, भीष्मद्वादशी। (१३) त्रयोदश्याम्-कल्पादिः। गुजरे तु कालीव्रतम्। न्यग्रोधदन्तधावनम्। (१५) तत्र पूर्णिमा, अस्याः पर्यायौ-अग्निपूर्णिमा, माघी। फाल्गुनासितपक्षीय पर्वनामानि(११) तत्र विजयैकादशी। (१४) तत्र चतुर्दश्याम्-शिवरात्रिव्रतम्, सा तु निशीथव्यापिनी ग्राह्या। फाल्गुनसितपक्षीयपर्वनामानि (१) तत्र प्रतिपदि-होलिकारम्भः। (८) तत्र होलाष्टमी। (११) तत्र आमलकी (आमर्दी) एकादशी। (१२) तत्र गोविन्दद्वादशी, वाराहे तु नृसिंहद्वादशी। (१३) तत्र त्रयोदश्याम्बादरदन्तधावनम्। (१५) तत्र पूर्णिमायाम्-मन्वादिः। होलिकोत्सवः। __ अस्याः पर्याया:-दाण्डपाता, फाल्गुनी, वसन्तोत्सव:, हुताशनी, होला, होलाका, होलिका, होली। एतया पूर्णिमया संलग्ना या प्रतिपत्तस्याः पर्याया:-धूलिमहः, पांसुमहः रजोमहः, रेणुमहः (धुलेण्डी इति भाषा)। चैत्रासितपक्षीयपर्वनामानि(११) तत्र पापमोचन्येकादशी। (१३) तत्र त्रयोदश्याम्—महावारुणीव्रतम्, महामहावारुणीव्रतम्, शनिप्रदोषव्रतम्, पक्षप्रदोषव्रतम्। (३०) तत्र अमायाम्-मन्वादिः। यस्मिन्नब्देऽधिमासस्तस्य पक्षद्वयोः कमलैकादश्यौ। मतान्तरेतु-अधिके सिते 'पद्मिनी'। असिते ‘परमा' इति। प्रतिमासे पञ्चपर्वभेदा: (१) कृष्णचतुर्दशी, (२) कृष्णाष्टमी, (३) अमावास्या, (४) पूर्णिमा, (५) रविसंक्रान्तिदिनं, चैतानि पञ्च पर्वाणि स्युः। यदुक्तं ज्योतिस्तत्त्वे-१६-७-३१४। 'भूतकृष्णाष्टमीदर्शराका: संक्रान्तिवासरः। भानोरेतानि पर्वाणि पञ्च सत्सु विवर्जयेत्। इति। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy