________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दव्युत्पत्तिसर्ग: सर्ग:
अथ साम्प्रतं मान्दिप्राणयोर्नामान्याहमन्दात्परे सुतेञ, मान्देः, प्राणात्पदं चासोर्नाम |
व्याख्या— मन्दादिति । मन्दात्परे सुतेञौ सुतशब्द इञ् प्रत्ययश्च तदा मान्देर्नामनी स्याताम्। यथा—मन्दसुतः, मान्दिः । इति । एवं प्राणादुत्तरे पदं चेत्तदा असो: प्राणस्य नाम स्यात् । यथा - प्राणपदः । इति ।
अदानी ग्रहस्य यौगिकनामान्याह—
खात्परतो गामि-चरा-टन-गमन गति-स-द्वास- निवासाश्च ।
गौ-को भ्रमणा-यनाट - पान्थ - तलाधिवासा ग्रहस्य नाम ॥ २८ ॥
२६५
व्याख्या - खादिति । खात्परतो गामि-चर- अटन-गमन गति - सद् वास निवास-ग-ओकस्, भ्रमण - अयन - अट- पान्थ-तलाधिवासशब्दा यदि तदा ग्रहस्य नाम । यथा – खगामी, खचरः, खेटन:, खगमनः, खगतिः, खसद्, खवासः, खनिवासः, खगः, खौका:, खभ्रमणः, खेयन: खेटः, खपान्थः, खतलाधिवासश्चेति ग्रहस्य नामानि स्युः ।
अथेदानीमिह प्रसङ्गाद्देवानामपि यौगिकनामान्याहदैत्य- दानव-रक्षोभ्योऽरि योज्यः परतोऽमृतात् । आहारो, मन्दिरा-न्मेरोः स्वर्गाच्चालय इत्यपि । अप्सरोभ्यः पति योज्यः कश्यपा - ददितेः सुतः । वेश्म-पद्या-चारि-वासाः खान्नामाहुर्दिवौकसाम् ।।
व्याख्या - दैत्येति । अप्सरोभ्य इति च । दैत्याः दिते पुत्राः । दानवा दनोः पुत्राः, रक्षांसि च निकषापुत्राः, एषां नामतः परतः परे, अरिः शत्रुवाचकशब्दः, योज्यो योजनीयः, तदा दिवौकसां देवानां, नाम संज्ञा, आहुर्ब्रवन्ति । एवं अमृतात् सुधायाः परत आहारोऽभ्यवहारो योज्यः । मन्दिरात् प्रासादात्, मेरोर्हिमद्रेः, स्वर्गात् त्रिदशालयाच्च आलयो योज्यः । अप्सरोभ्य उर्वशीप्रभृतितः पतिर्भर्ता योज्यः । कश्यपाददितेश्च परे सुतो योज्यः । रवात् आकाशनामतः परे वेश्म-पद्या चारिरे- वासा एते शब्दा योज्यास्तदा देवानां नामानि भवन्ति ।
For Private and Personal Use Only
यथा-- - दैत्यारिः, दानवारि:, नक्षोऽरिः । मन्दिरालय:, मेर्वालयः स्वर्गालयः । अप्सरसां पतिः । कश्यपसुतः, अदितिसुतः । खवेश्मा, खपद्यः, खचारी, खवासः देवः इति । अथाधुना प्रकारान्तरेण यौगिकनामान्याह - आहारो रिपवो ऽचलश्च तरवो ज्येष्ठोऽङ्गना वाहनं सेनानीः सखिगायनाश्च जनको ऽम्बा योनयो वर्द्धकिः । वैद्य दारु सुमं प्रिया च नगरी यज्ञो - त्तमौ तोषको, वल्ली राजपती अरातिसचिवो मंत्री गुरु श्चा-लयाः ।। ३१ ।। धनु- र्लोका-ऽऽश्रया - ऽराम सभा श्रेष्ठ-र्षया लता । निम्नगा दीर्घिका नालः सर्षपो मृतिका प्रियः । सुधा दैतेय - दनुज - नैकया हिमाचलः । पारिजातादयो ब्रह्मा तथा तिलोतमादिकाः ।