SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ प्रकीर्णसर्गः यथा-जन्मराशेः सकाशाद् ग्रहाणां सञ्चारवशेन शुभाशुभफलं यत्तद् ग्रहगोचरफलं ज्ञातव्यमिति। जन्मचन्द्रधिष्ठितराशितस्तत्काले (वर्तमानसमये) रव्यादयो ग्रहा यस्मिन् यस्मिन् तन्वादिभावे वर्त्तन्ते तज्जन्यगोचरफलानि ते नराणां प्रयच्छन्तीत्यर्थः। सामुद्रप०-देहलक्षणम्, शरीरचिह्नम्, सामुद्रम्, समुद्रोक्तशास्त्रम्। सामुद्रिकप०-सामुद्रक: (त्रि०), सामुद्रिकः (त्रि०), स्त्रीपुंसयोश्चिह्नवेत्ता (तृ) (त्रि०)। तदुक्तम्वेत्ता स्त्रीपुंसयोश्चिह्न सामुद्रिक उदाहतः। इति हारावल्याम्, ३९९/६१ फलप०-फलम् (न०), व्युष्टि: (स्त्री०), परिणाम: (पुं०), प्रयोजन इति भाषा। फलितप०-फलित: (त्रि०), सफलसञ्जातफलम्, ज्योतिषशास्त्र का फलित (होरा) भाग। इति भाषा। स्फुरणप०-स्पन्दः, स्पन्दनम्, स्फरणम्, स्फारणम्, स्फुरः, स्फुरणम्, स्फुरणा, स्फुरितम्, स्फुलनम्, स्फोरणम्, शरीर का फड़कना इति भाषा। अस्य फलम्अङ्गस्य स्फुरण भवेच्छुभतरं पार्श्वे सदा दक्षिणे। भागे वाम इहाप्रशस्तमुदितं स्त्रीणां विलोमं मतम्। इति ज्योतिस्तत्त्वे ४३/१३५९/४४ छिक्काप०-क्षवः (पुं०), क्षुत् (स्त्री०), क्षुतम् (न०), छिक्का (स्त्री), 'छींक' इति भाषा। अस्य फलम् छिक्का कलिश्चेत्पुरतोऽथ मध्ये छिक्काऽऽमनोऽतीवभयं सदूर्ध्वम्। स्वप्ने क्षणे भोजनदानपीठे वामाङ्गपृष्ठे शुभदा: क्षुत: षट्। इति ज्योतिस्तत्वे ४३/१३५/०२ स्वप्नप०-प्रसुप्तविज्ञानम् (जाग्रद्वासनामयः), स्वप्नः। अस्य भेदाः-(१) दृष्टः, (२) श्रुतः, (३) अनुभूत:, (४) प्रार्थितः, (५) कल्पितः, (६) भावित:, (७) दोषजश्चेत्येते स्वप्नस्य सप्तभेदा: स्युः। अस्यान्ये प्रभेदाः(१) स्पष्टस्मृतिः, (२) अस्पष्टस्मृतिः (३) अस्मृतिश्चेत्येतेऽन्ये त्रयः प्रभेदाः स्युः। उपश्रुतिप०-आकशवाणी (स्त्री०), उपश्रुति: (स्त्री०), चित्तोक्ति: (स्त्री०), देवप्रश्न: (पुं०), पुष्पशकटी (स्त्री०), आकाशवाणी इति भाषा। तदुक्तम्अथ स्यात्पुष्पशकटी दैवप्रश्न उपश्रुतिः। इति कल्पद्रौ ९६/६७। 'चित्तोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः।। इति त्रिकाण्डशेषः। तज्ज्ञानप्रकारमाह पुरुषोत्तमदेव:नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः। श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम्॥ इति हारावल्याम् ३९८/२२ साहितिकप०-संहिताशास्त्रज्ञः, संहिताशास्त्रवेत्ता (तृ), साहितिकः। ईतिप०-ईति: (स्त्री०), कृषः षट् (सप्तवा) प्रकारोपद्रवविशेषः। अजन्यम्, उत्पात: For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy