________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
ज्योतिर्विज्ञानशब्दकोषः तदुक्तं ग्रन्थान्तरे- 'शुक्रादित्यदिने न वारुणदिशं, न ज्ञे कुजे चोत्तरां। मन्देन्द्रोश्च दिने न शक्रककुभं, याम्यां गुरौ न व्रजेत्। शूलानीति विलंघ्न यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशा: पुनरापतन्ति यदि ते शक्रेण तुल्या अपि।। इति।
दिक्छूलभेदा:-(१) रविशुक्रयोवरि प्रतीच्यां शूलम्, (२) बुधभौमयोरुदीच्यां शूलम्, (३) शनिचन्द्रयोः प्राच्यां शूलम्, (४) जीवेऽवाच्यां शूलम्, यत्र दिशिशूलमस्ति तत्र न गच्छेत्।
विदिकछूलभेदा:-(१) बुधमन्दयोवरि ईशानकोणे शूलम्, (२) जीवेन्द्वोरग्निकोणे शूलम्, (३) भौमवारे वायव्यां शूलम्, (४) रवौ शुक्रे च रक्षोदिशि शूलम्, यस्यां दिशिशूलं तत्र यात्रां वर्जयेत्।
अस्य परिहारोप्युक्तो ग्रन्थान्तरेपीत्वा घृतं रवौ, गच्छेत्पयश्चन्द्रे, कुजे, गुडम्। बुधे तिलान्, गुरोवरि दधि, शुक्रे यवांस्तथा।।
भुक्त्वा माषान्नमस तु शूलदोषापनुत्तये। इति। हो०च० २६/३६/६७। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दिग्सर्गः पञ्चदशः ॥१५॥
अथ दिक्पालसर्गः-१६ दिक्पालभेदाः-(१) इन्द्रः, (२) अग्निः, (३) यमः, (४) नैर्ऋतः, (५) वरुणः, (६) वायुः, (७) कुबेरः, (८) ईश: इत्येते पूर्वदिश: क्रमादष्टौ दिक्पाला: स्युः।
तदुक्तममरसिंहेनइन्द्रो वह्निःपितृपतिर्नैर्ऋतो वरुणो मरुत्।। कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमादिति।।
इन्द्रपर्यायाः-अण्डीरः, अदितिपुत्रः, अदिद्विट् (), अद्रिभित् (द), अप्सरसांपति:, अमरेट् (श्), अर्की (इन्), अर्हः, आखण्डलः, आतङ्कः, इन्द्रः, उग्रधन्वा (अन्), ऊर्ध्वधन्वा (अन्), ऋभुक्षा (अन्), ऋषभध्वजः, ऐरावतः, कारु:, किणालातः, कौटीर:, कौशिकः, खदिर: गोत्रभित् (द्), गौरावस्कन्दी (इन्), घनाघनः, चन्दिरः, चित्ररथः, जम्भभेदी (इन्), जम्भरिपुः, जयः, जिष्णुः, तपः, तपस्तक्षः, तुरापाट् (ह्), तुल:, त्रिलोकीराज:, दल्मी (इन्), दाल्मिः, दिवस्पति:, दुश्च्यवनः, देवताधिपः, देवदुन्दुभिः, देवराजः, देवश्रेष्ठः, धाराङ्करः, नमुचिनिषूदनः, नमुचिसूदनः, नाकनाथः, परमन्युः, पर्जन्यः, पर्थज्ञः, पर्वतारि:, पाकनिषूदनः, पाकशासन:, पुरन्दरः, पुरुदंशा: (अस्), पुरुहूतः, पुलोमनिषूदनः, पुलोमशत्रुः, पुलोमारि:, पूतक्रतुः, पूर्वदिक्पतिः, पूर्वदिक्पाल:, पृतनाषाट् (ह), प्रयागः, प्राचीनबर्हिः, प्राचीपतिः, बलनिषूदनः, बलरिपुः, बलहा (न्), बलाराति:, बाणः, बाहुजज्ञः, बाहुदन्तेयः, बिडौजाः
For Private and Personal Use Only