SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५४ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः Acharya Shri Kailassagarsuri Gyanmandir प्रतिष्ठित: (त्रि०), संस्थितः । यथा - प्रभाकरे पगुगृहे प्रतिष्ठिते इ० ग्रं० का ० । व्यवस्थितः (त्रि०), प्रतिष्ठित: । यथा - ' एवं देशाधिनाथा ये ग्रहवेधे व्यवस्थिताः । ' इति नरपतिजयचर्यायाम् । संस्थ: (त्रि०), अवस्थितः । यथा - 'ग्रहो यदि च कर्मणि संस्थ:' इ०जा०पा०| स्थ: (त्रि०), पदान्ते तिष्ठत्यस्मिन् 'घञर्थे कः ' । यथा- राहुश्चतुष्टयस्थो मरणाय निरीक्षितः । इति सारावल्याम्। स्थित: ( त्रि०), १ वर्तमानः, २ समुपस्थितः, ३ निश्चल, स्थिरः । यथा --- ' वपुषि स्थिते स्वगृहतुङ्गे विधौ' इति । 'लग्नपुत्ररिपुविक्रमस्थिताः शुक्रजीवशनिभास्करा यदा ।' इति च वि०मा० । संस्थित: (त्रि०), व्यवस्थितः । यथा - शोभने संस्थिते सोदरेशान्विते कण्टके' इ० ग्रं० का ० । समासीनः (त्रि०), उपविष्टः । यथा - समासीने सोमे ससखिसदनेशे सखिगृहे' इ० ग्रं० का ० । श्रित: (त्रि०), १ आश्रितः २ संलग्नः, संयुक्तः । यथा-श्रित उषारमणे रमणालये इ० ग्रं० का ० । संश्रित: (त्रि०), आश्रितः, अनुजीवी । यथा - संश्रिते कण्टके कोणपे सायपे।' इ०ग्रं० का ० | अथवा — 'श्रितकण्टके च सुरराजमंत्रिणि' इत्यु० भा० । अथवा—‘धान्यानां नवसंग्रहे शशिशनी लग्ने श्रितैकांशकौ' इ०वि०मा० । समुपाश्रित: (त्रि०), आश्रितः, उपविष्टः (बैठा )। यथा-‘माहेयमन्दामृतरश्मिरोधनाः स्वनीचराशिं समुपाश्रिता इमे ।' इ०प्र० का ० । सेवित: (त्रि०), आश्रितः । यथा-'चेत्सेविता युवतिरत्रिजनुः, सुतेन' इ०ग्रं० का ० । अथाधुना स्थानवाचक शब्दोदाहरणानि— कृतायतन: (त्रि ), कृताश्रयः, कृत आयतन, आश्रयो येन । यथा-‘कृतायतनः स्वकीयतुङ्गोदये नलिनीवनाधिनाथः । ' इ०ग्रं०का० । कृताश्रय: ( त्रि०), कृतपदः । ‘कृताश्रयः स्वीयसुहृद्विलग्ने सरस्वतीशः सितसोमयुक्तः । ' इ०ग्रं० का ० कृतास्पद : ( त्रि०), कृतपदः । यथा-कृतास्पदो दैत्यगुरुर्निजोच्चोदये दयानाथनिरीक्ष्यमाणः ।' इ०ग्रं० का ० । यथा— कृतपदः (त्रि ० ), कृतास्पदः । यथा— कृतं पदं स्थानं येन एवं विधः कुमुदस्य बन्धुश्चन्द्रः । अथवा स्वोच्चोदये कृतपदः कुमुदस्य बन्धुः' इ० ज्यो०भ० | For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy