SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दृष्ट्यादिसर्गः संसक्त: (त्रि०), संलग्नः । यथा - 'संसक्त इन्दौ खररश्मिमालिना इ. ग्रं. का। संहित: ( त्रि०), १ सहितः, २ मिलितः । यथा- 'संहितो यदि विदा निशाकर:' इ. ग्रं. का. । सक्त: (त्रि०), लग्नः, लगितः । यथा- आत्मकारकलवे शशिसक्ते इ. जै. प. मृ । अथवा-यथा- 'निधनभवननाथ: कामिनीभावसक्तः इ. ग्र. । सखा (त्रि०), सहाय:, सहचारी, अनुचरः, अभिसरः । यथा— अखिलकेन्द्रसखैः खलखेचरैः इ. ज्यो. भ. । Acharya Shri Kailassagarsuri Gyanmandir अथवा - अशुभशुक्रसखः इति विवाहवृन्दावने । सङ्गतः (त्रि०), युक्तः । यथा - द्विततनौ भार्गवभार्यभूभवाः । यदि ते तुरगाङ्गसङ्गताः सुतदाः । इति ग्रं० का . । सनाथ: (त्रि०), नाथवत्, रक्षक: युक्त इत्यर्थः । यथा-विग्रहे कमलिनीशसनाथे इति ग्रं० का ० । अथवा – सपत्नभवविक्रमैः शनिकुजरविभि: सनाथैः, इति ज्यो०भ० । समन्वितः (त्रि०), युक्तः। यथा - सतां गृहे सौम्यखगैः समन्विते इ. ग्रं. का। समाढ्यः (त्रि०), युक्तः। यथा - सौम्यैः समाढ्ये सुतसद्मनीन्दौ इ. ग्रं. का. । समेत: (त्रि०), मिलितः, संयुक्तः । यथा-पञ्चमे नवमे द्यूनेसमेतौ सितभास्करौ । इति गार्गिः । अथवा – मदे मतङ्गे मृदुना समेते इ० ग्रं० का ० । सम्पद्यमान: (त्रि०), मिलितः । सम्पद्यमानस्तरर्णिर्धराभुवा इ. ग्रं. का. । सम्पृक्त: (त्रि०), सयुक्तः । यथा - सम्पृक्तततोऽसृक, सौरिणा भास्वता वा इ. ग्र. का. । सम्मिश्र: (त्रि०), संयुक्त: । 'सम्मिश्रश्चेद् भास्करो बोधनेन इति ग्र० का ० । सहित: (त्रि०), संयुक्तः । यथा - भास्करहिमकरसाहित: शनैश्चरो मृत्युदः प्रसवकाले ।। इति सारावल्याम्। अथवा - - यमोऽर्कमाभ्यां सहितोऽन्तदः सवे इ. ग्रं. । १५१ अथाधुना व्याप्तवाचकशब्दोदाहरणानि - आचितः (त्रि०), व्याप्तः । यथा -ऽथो चिति, नेत्रपाण्यवस्थाचिते सोमसुते, इ. ग्रं. का. । आश्रितः (त्रि०), अधिष्ठितः । यथा - यदाश्रिते कालगृहे कलानिधौ समीक्षिते कालखगेन जन्मनि । इ. ग्रं. का. । उपविष्टः (त्रि०), अधिष्ठितः । यथा - उपविष्ट इने निधने सयमे द्रविणे विधुना सहिते सकुजे । इ. ग्रं. का. । निचित: (त्रि०) व्याप्तः, पूरित: । यथा— शीर्षोदभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इ. ज्यो. भ. । अथवा – कण्टके यदि कोदयभाजि शोभनद्युगतिना निचितेऽत्र । इति ग्रं० का ० । ११ ज्यो. वि. शब्दकोष For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy