SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ ज्योतिर्विज्ञानशब्दकोषः श्चैते होराशास्त्रे वर्गाणां चत्वारो भेदाः स्युः तथा ताजिकशास्त्रे तु 'द्वादशवर्गी' इत्येको भेदः । षड्वर्गप्रभेदाः – (१) गृहम्, (२) होरा, (३) द्रेष्काण: (दृगाण:), (४) नवमांशकः, (५) द्वादशांशक:, (६) त्रिशांशकश्चैते षड्वर्गप्रभेदाः स्युः । एते यात्राविवाहादिमुहूर्तेषु चिन्तनीयाः । सप्तवर्गप्रभेदाः- (१) गृहम्, (२) होरा, (३) द्रेष्काण: (४) सप्तांश: (५) नवांश: (६) द्वादशांश: (७) त्रिशांशश्चैते सप्तवर्गप्रभैदा स्युः एते जातकपद्धत्युक्तरीत्या बलाधानयने चिन्तनीयाः । दशवर्गप्रभेदाः -- (१) गृहम् (२) होरा, (३) द्रेष्काण:, (४) सप्तांश: (५) नवांश:, (६) दशमांश:, (७) द्वादशांश:, (८) षोडशांश:, (९) त्रिंशांश:, (१०) षष्ट्यंशश्चैते दशवर्गप्रभेदाः स्युः । अमी पारिजातांशादितः फलचिन्तने चिन्तनीयाः । षोडशवर्गप्रभेदाः – (१) गृहम्, (२) होरा, (३) द्रेष्काण:, (४) चतुर्थांश:, (५) सप्तांश:, (६) नवांश:, (७) दशमांश:, (८) द्वादशांश:, (९) षोडशांश:, (१०) विंशांश:, (११) सिद्धांश:, (१२) भांश:, (१३) त्रिंशांश:, (१४) खवेदांश:, (१५) अक्षवेदांश:, (१६) षष्ट्यंशश्चैते षोडशवर्गप्रभेदाः स्युः । इमे जातकेषु सूक्ष्मफलचिन्तने चिन्तनीयाः । ताजिकशास्त्रे द्वादशवर्गीप्रभेदाः - (१) गृहम्, (२) होरा, (३) द्रेष्काण:, (४) चतुर्थांश:, (५) पञ्चमांश:, (६) षष्ठांश:, (७) सप्तांश:, (८) अष्टमांश:, (९) नवांश:, (१०) दशमांश:, (११) एकादशांश:, (१२) द्वादशांश, श्चैते द्वादशवर्गीप्रभेदाः स्युः । एते वर्षफलानयने बलसाधनाय चिन्तनीयाः । गृहादीनामंशादिप्रमाणमित्थम् गृहे ३०°१, होरायाम् १५°१, द्रेष्काणे १०°, चतुर्थाशे ७ । ३००, सप्तांशे ४° । १७ । ९' । ; नवांशे ३ २०', दशमांशे ३१ ० ' ।, द्वादशांशे २ । ३० । षोडशांशे १ | ५२ । ३० ।, विंशांशे १ । ३० । ० " सिद्धांशे ११५ । ० " 1, भांशे १९ । ६ । ४० " त्रिंशांशे तु समराशिषु ५° ॥७° १८°१५°१५ अंशानां क्रमेण भज्ञेज्यावार्त्त्यारास्तदंशेशा: । ओजराशिषु ५°१ ५°॥। ८°। ७°। ५° अंशानां क्रमेण भज्ञेज्यार्थ्यारास्तदंशेशाः । खवेदांशे० ॥ ४५ ॥ ० ", अक्षवेदांशे ०° ४० । ०" । षष्ट्यंशे ० । ३० । ० " एतदुक्तप्रमाणं स्वस्वप्रमाणेन पृथग् गुणयेत्तदा निजनिजप्रमाणं भवेत् । पारिजाताद्यंशानां नामानि : - (१) पारिजातांशः, (२) उत्तमांश:, (३) गोपुरांश:, (४) सिंहासनांश:, (५) पारावतांश:, (६) देवलोकांश:, (७) ब्रह्मलोकांश:, (८) ऐरावतांशः, (०) श्रीधामांश, श्चैत्येते 'वैशेषिकांशका' ज्ञेयाः । होरापर्यायाः - भदलम्, भार्द्धम्, राशिदलम्, राश्यर्द्धम्, होरा। द्रेष्काणप० – त्रिभागः, त्रिलव:, त्र्यंशः, दृक्काण:, दृगाणः, द्रेष्काण: । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy