SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ ज्योतिर्विज्ञानशब्दकोषः ___ सप्तमभावस्य भोग्यांशत: आरभ्यं लग्नभुक्तांशपर्यतं समग्रखण्डं 'दृश्यभागः' वामशरीरं, उदितं चोच्यते। एवं तनुभावस्य भोग्यांशत आरभ्य सप्तमभुक्तांशपर्यंत समग्रखण्डं अदृश्यार्द्धम्, 'दक्षिणाङ्गम्' 'अनुदितं', चोक्तम्। इति, ‘दशमतश्चतुर्थश्च' 'पूर्वार्द्ध' परार्द्ध च ज्ञेयमिति। उपचयभावनामानि-तृतीयः, षष्ठः, दशमः, लाभश्चैतानि उपचयभावनामानि। उपचयपर्यायाः-उपचयः, ऋद्धिः, एधा, चयः, चितिः, वृद्धिः, समुपचयः, इति। त्रिकभावनामानि-षष्ठः, अष्टमः, द्वादशश्चैतानि त्रिकभावनामानि। त्रिकवाचकशब्दाः-अनिष्टम्, अरिष्टभाव:, त्रिकम्, दुष्टम्, दुःस्थः, पीडास्थानम्, बाधकः, बाधास्थानम् इति। पतितभावनामनी-षष्ठः, व्ययश्चैते पतितभावनामनी। पतितपर्यायः-पतितम्। केन्द्रभावनामानि-लग्नम्, चतुर्थम्, सप्तम, दशमश्चैतानि केन्द्रभावनामानि। केन्द्रपर्यायाः-कण्टकम्, कीचकम्, केन्द्रम्, चतु:केन्द्रम्, चतुष्कचतुष्टयम्, चतुष्टयम्। पणफरभावनामानि-द्वितीयम्, पञ्चमम्, अष्टमम्, एकादशं, चैतानि पणफरभावनामानि। पणफरपर्यायः-पणफरम्। आपोक्लिमभावनामानि-तृतीयम्, षष्ठम्, नवमम्, द्वादशं, चैतानि आपोक्लिमभावनामानि। आपोक्लिमपर्यायाः-आपोक्लिमम्। अपचयभावनामानि-लग्नम्, धनम्, सुखम्, सुतः, जाया, मृत्युः, दशमम्, एकादशं, चैतान्यपचयभावनामानि। अपचयपर्यायाः-अपचयः, अनुपचयः, पीडभम, पीडर्भम् इति। सुभावनामानि-लग्नम्, तृतीयम्, सुखम्, पञ्चमम्, सप्तमम्, नवमम्, दशमम्, एकादशम्, चैतानि सुभावनामानि। सस्थानपर्यायाः-सत्स्थानम्, सत्प्रदभम्, सुस्थानम् । त्रिकोणभावनामनी-पञ्चमम्, नवमं, चैते त्रिकोणभावनामनी स्तः। त्रिकोणपर्यायाः-कोणम्, त्रिकोणम्, शस्तम्।। ज्ञानभावनामानि-द्वितीयम्, चतुर्थम्, पञ्चमम् चैतानि ज्ञानभावनामानि। ज्ञानपर्यायः-ज्ञानम्। लीनभावनामानि-तृतीयः, षष्ठः, अष्टमः, व्ययश्चैतानि लीनभावनामानि। लीनपर्यायः-लीनम्। आयुर्गृहनामनी-तृतीयम्, अष्टमं, चैते आयुर्गृहनामनी। आयुर्गृहपर्याया:-आयु:स्थानम्, आयुर्गृहम्, आयुर्भवनम्। मारकगृहनामनी-द्वितीयम्, सप्तमं, चैते मारकगृहनामनी। मारकगृहपर्यायाः-मारकगृहम, मारकभवनम्, मारकस्थानम्। नेत्रगृहनामनी-द्वितीयम्, व्ययश्चैते नेत्रगृहनामनी। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy