SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ग्रहगणितसर्गः सकलग्रहप ०- - अखिलग्रहः, निखिलग्रहः, सकलग्रहः, सर्वग्रहणम् । 'कङ्कणप ० - -कङ्कणम्, कङ्कणग्रहः, कङ्कणग्रहणम् । मोक्षकालप ० - ग्रहणविराम:, पर्वविरामकाल:, मुक्ति:, मुक्तिकाल:, मोक्षः, मोक्षकालः, विमोक्षः, विमोचनम् । पर्वकालप० - ग्रहणाखिलकाल:, पर्वकालः पर्वसमयः । परिलेखप ० - आलेख्यकर्म (अन्), छेद्यक:, परिलेखः, बिम्बलेखनम्, मण्डललेखः । यदुक्तम् 'न च्छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः । ज्ञायन्ते तत्प्रवक्ष्यामिच्छेद्यकज्ञानमुत्तमम् ।।' (इति सूर्यसद्धान्ते । ) Acharya Shri Kailassagarsuri Gyanmandir नतभेदौ – (१) प्राङ्नतम् (२) पश्चिमनतम्, चेति नतस्य वलनसिद्धयै द्वौ भेदौ यत्रार्केन्द्वोर्ग्रहौ क्रमेण रात्रिदिवसयोर्भवेताम्, तदोक्तनते साध्ये | अथवा ११७ 'वलनभेदौ – (१) आक्षवलनम् (२) आयनवलनं, चेति द्वौ वलनौ स्तः । वलनांघ्रिप ० - वलनचरणाः, वलनपादाः, वलनांम्रयः । "संस्कृतिप० - संस्करणम्, संस्कृतिः, संस्क्रिया । ग्रासांघ्रिप० - आशांघ्रिः, ग्रासांघ्रिः, छन्नांघ्रिः, छन्नाशांघ्रि:, दिक्चरणः, दिक्पादः । 'स्याताम् । (१) ग्लौबिम्बमानेऽर्कतनोः सुपुष्टे सर्वग्रहः कङ्कणमन्यथा स्यात् । अस्यार्थः - अर्कतनोः सूर्यबिम्बाद् ग्लौबिम्बमाने सुपुष्टे गुरुतरे सति सर्वग्रहो भवति । अन्यथा नाम चन्द्रबिम्बात्सूर्यबिम्बे विस्तृततरे सति 'कङ्कणग्रहणं' ज्ञेयम् । ग्राहकबिम्बे पृथुतरे ग्राह्यमाच्छाद्य खग्रासग्रहणोद्भवः । ग्राहकबिम्बे लघुतरे सति ग्राह्यबिम्बं ग्राहकबिम्बमभितः सितकङ्कणाकृतिर्भृशं भ्राजते, ततः कङ्कणग्रहणं दृश्यते । (२) अभ्यधिके स्फुटतिथ्यन्ते स्थितिदलेनैव मोक्षो भवति । (३) सममण्डलप्राच्याः सकाशान्नाडिकामण्डलप्राची यावतान्तरेण वलति तदाक्षं वलनमित्यन्वर्थं नाम । For Private and Personal Use Only यत्सममण्डलं सा द्रष्टुः प्राची, सममण्डलनाडिकामण्डलप्राच्योर्यदन्तरं तदाक्षं वलनम्। यतो नाडिकामण्डलसममण्डलयोरन्तरं अक्षांशा एव, तथैव नाडीमण्डलप्राच्या: क्रान्तिमण्डलप्राची यावतान्तरेण वलति तदायनं वलनं अयनसम्बन्धित्वादायनं वलनं ज्ञेयम्। (४) संस्कृतिर्यथा—धनयोर्योगः, ऋणयोरपि योगः, धनर्णयोरन्तरमेव योगः । 'यदुक्तम् - योगे युतिः स्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः । इति बीजगणिते । उभयसंस्कृतिर्यथा— अयनाक्षवलनयोः संस्कृतिः, एकदिशि योगो भिन्नदिशोरन्तरम् । वलनदिक् चरणाः स्यु।
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy