SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ज्योतिर्विज्ञानशब्दकोषः शीघ्रोच्चप०-आशुतुङ्गम्, आशूच्चम्, चलतुङ्गम्, चलोच्चम्, द्राक्तुङ्गम्, द्रागुच्चम्, शीघ्रतुङ्गम्, शीघ्रोच्चम्। पदप०-पदम्, स्थानम्, राशित्रयात्मकम्। पदभेदौ-(१) विषमपादम्, समपदम्, चैतौ द्वौ पदभेदौ स्याताम्। विषमपदवाचकशब्दाः-अयुक (ज्), अयुग्मम्, असमम्, असमानम्, ओजः, विषमम्, विषमसंख्या। तदुक्तम्'ओजेनौजः समः पादे' इति भरतादयः, इति श०र्चि० १/४४२। समपदवाचकशब्दाः-अनोज:, नौजः, युक् (ज्), युग्मम्, समानम्। त्रिभपर्यायाः-त्रिभम्, भत्रयम् भत्रयसमुदायः, राशिवयम्, राशिवयसमुदायः। भुजप०-दोः (स्) (पुं०न०), प्रविष्टः, बाहुः (पुं० स्त्री०), भुजः (पुं० स्त्री०) वाहा (स्त्री०)। भुजभेदाः-(१) त्रिभाल्यकेन्द्रम्, (२) त्रिभाधिकषड्भोंनकेन्द्रम, (३) षड्भाधिकषड्भोनकेन्द्रम्, (४) नवभाधिकभचक्रच्युतकेन्द्रम् चेत्येते भुजस्य चत्वारो भेदा: स्युः।। भुजांशपर्यायाः-भुजभागः, भुजलव:, भुजांशः, भुजांशकः। स्वभा = कर्णः, श्रुतिः, श्रवणम्। कर्णप०-ध्वनिग्रहः, पैजूषः (पुं०न०), महानादः, वचोग्रहः, शब्दग्रहः, शब्दाधिष्ठानम्, श्रवणम्, श्रवः (स्) (न०), श्रुति: (स्त्री०), श्रोत्रम् (पुं० न०)। कर्णभेदौ-(१) मन्दकर्णः, (२) शीघ्रकर्णश्चैतौ द्वौ कर्णस्य भेदौ स्याताम्। (पृष्ठ १०१ का शेषांश) बुधशुक्रयोस्तु। मध्यमाधिकारोक्तविधिना तयोः शीघ्रकेन्द्रे साधनीये। भौमार्कीज्यानां मध्यमरविरेव शीघ्रोच्चम् स्यात्। ज्ञसितयोस्तु पूर्वागते शीघ्रकेन्द्रे मध्यमरविणा सहिते तयोः शीघ्रोच्चे स्याताम्। 'तदुक्तम्'-मध्यमार्कसहितं चलकेन्द्रं स्याद्वधस्य' सितस्य च चलोच्चम्। मेदिनीतनयजीवशनीनां मध्यमार्क उदितं तु चलोच्चम्।।' इति ग्रन्थांतरे। (५) ग्रहलाघवीयग्रहगणिते ग्रहाणां मन्दोच्चराशयः। ग्र० रविः भौमः बुधः गुरुः शुक्र: शनि: अं० १८ ० ० ० ० ० (१) अयुग्मे पदे यातं भुज: स्यात्। युग्मे तु एष्यं भुजः स्यात्। ग्रहलाघवे तु कथितम्-दोस्त्रिभोनं त्रिभोर्ध्व विशेष्यं रसैश्चक्रतोऽङ्काधिकं स्यादिति। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy