________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः दिनगणः, दिनचयः, दिननिचयः, दिवृन्दम्, दिनव्रजः, दिनसंघ:, दिनसञ्चयः, दिनौघ:, दिवसगणः, दिवसनिकरः, दिवसब्रजः, दिवसत्रात:, दिवागणः, दिवाचयः, दिवाव्रजः, धुचयः, धुपिण्डः, धुराशिः, धुवृन्दम्, धुव्रजः, धुगणः, वासरनिवहः, वासरवृन्दम्, वासरसञ्चयः, वासरोघः।
अहर्गणभेदौ-(१) औदयिकदिनगण:, (२) सावयवदिनगणः। औदयिकदिनगणपर्यायाः-औदयिकदिनगणः, निरवयवदिनगणः, प्रात:कालीनदिनगणः। सावयवदिनगणप०-साभीष्टकालिकदिनगणः, सावयवदिनगणः, सेष्टकालीनदिनगणः। अहर्गणजखगप०-अहर्गणजखगः, दिनगणभवखेट:, धुगणोद्भवग्रहः, वासरौघभवखचरः। क्षेपक प०-क्षेपः, क्षेपकः। घुवक प०-ध्रुवः, ध्रुवकः। चक्रघूव प०-चक्रगुणितध्रुवः, चक्रघ्नध्रुवः, चक्रनिघ्नध्रुवः, चक्रहतध्रुवकः। संस्कारप०-भावना, वासना, संस्कारः।
संस्कारभेदाः-(१) उदयान्तरम्, (२) रेखान्तरम्, (३) चरान्तरम्, (४) भुजान्तरम्, (५) बीजान्तरम्, (६) आकर्षणम्। चैते षट्संस्कारा: स्युः।
देशान्तरसंस्कारभेदौ-(१) प्रागपरम् (रेखान्तरम्), (२) याम्योत्तरम् (चरान्तरम्), चैतौ द्वौ संस्कारौ स्याताम्।
योजन पर्यायाः-क्रोशचतुष्टयम्, चतुष्क्रोशम्, चतुष्कोशी, योजनम्। भूप०-भूः, भूमिः, शेषपर्यायास्तु भौमपर्यायेषु द्रष्टव्याः। परिधिप०-कक्षा, परिधिः, मण्डलम्, वृत्तम्, वृत्ताकारपथः।
१,२. करणग्रन्थेऽत्राचार्यैर्मध्यमग्रहानयनार्थद्वे संज्ञे कल्पिते 'क्षेपको' ध्रुवकश्चेति। क्षेपको नाम करणारम्भकाले लङ्कामध्यमाकोंदये यो मध्यमग्रहः स ग्रहस्य क्षेपकः। एकचक्रदिनगणभवमध्यमग्रह: परमदिनगणभवमध्यमग्रहो वा 'ध्रुवक' इति ज्ञेयः।
३. सोऽभीष्टचक्रेण गुणितो जातश्चक्रनिघ्नध्रुवकः। स्वक्षेपक:, चक्रनिघ्नध्रुवकः, 'दिनगणभवग्रहश्चैषां त्रयाणां योगसमा उज्जयिनीरेखायां मध्यमाकोंदयसमये मध्यमभौमबुधशुक्रा भवेयुः।
गुरुशन्योरतिदूरस्थत्वात्तयोराकर्षणसंस्कारोऽपि विधेयः।। रवौ तु देशांतरसंस्कार: कर्तव्यः।
चन्द्रविशेष:-पूर्वपरामृष्टग्रहगणवच्चन्द्रोऽप्युक्तप्रकारानीतो लङ्कायां मध्यमाकोंदयकालीनो मध्यम एव ज्ञेयः।
स च रेखान्तर-चरान्तर-बीजो दयान्तरभुजान्तराणि एभिः संस्कृतः प्रात:काले औदयिको मध्यमचन्द्र: स्यात्।
राहुचन्द्रोच्चयोरपि बीजसंस्कारो देयः। ग्रहलाघवे त चक्रनिघ्नध्रुवक ऋणमस्ति। तेन तत्राप्यस्वं कार्यम् । शेषक्रिया प्राग्वज्ज्ञेया।
४. योजनज्ञानं मानवर्गे द्रष्टव्यम्।
For Private and Personal Use Only