SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (८४) Acharya Shri Kailassagarsuri Gyanmandir तदेवाह - निच्छयओ पुण अप्पे वि जस्स वत्थुमि जायए भावो ॥ तत्तो सो निजरओ जिणगोयमसीहआहरणं ॥ २१३ ॥ " व्याख्या - निश्चयतो - निश्चयमतात्, पुनरल्पेऽपि -- हीनेऽपि, न केवलं लष्टे इत्यपि शब्दार्थः वस्तुनि आचार्यादौ, यस्य भव्यस्य, वस्तुनि उक्तरूपे, जायते प्रादुर्भवति, भावः प्रशस्तान्तःकरणम्, ततः स इति भावो निर्ज्जरकः - कर्म्महासकारकः । जिनः गोतमः सिंहः, आहरणं दृष्टान्तः, इति गाथार्थः ॥ भावार्थस्तु कथानकात् । तच्छेद"किल भगवता वीरेण गौतमस्वामी ग्रामं गच्छन्नेकदा भणितः - " गौतम ! त्वया हालिको मार्गे गच्छता पत्राजनीयः ।" "तथेति' प्रतिपद्य प्रणम्य च भगवन्तं गतो tant ग्रामे, गच्छता क्षेत्र निकटवर्ती हालिकः । ततो गौतमेन भणितं 'किं भोः! करोषि ?' निजकर्म्मवेिद्य पुनरुवाच - सः - 'साम्प्रतं यत्वं भणसि तदहं भगवन् ! करोमि । गौतमेनोचे- 'धम्र्म्म कुरुष्व' इति । तेन च प्रोत्फुल्लवदनकमलेन म्यगादि'एवमिति' । ततः प्रव्राणितोऽसौ । ततः स्वकार्य विहाय भगवत्सम्मुखमागच्छतस्वस्य शिक्षा दत्ता - ' एवं चङ्क्रमितव्यम्, एवंविधश्वास्मदीयो भगवान् वीरो देवता प्रतिपत्तव्यः' इत्यादि सर्व्वं तेन प्रतिपन्नम, यावदद्यापि भगवान्नासीदृष्टः । दृष्टे च तस्मिन् रजोहरणं मुक्तत्वा 'यद्ययं ते गुरुस्ततो न किञ्चित्तव धर्मेण कार्यम्' इति भणित्वा च पलायितः । किल तस्य वासुदेव भवकृत पूर्व्ववैरात् पितृव्यसुतजीव सिंहपाटनरूपात् भगवतं पश्यतः कर्म्मबन्धः, गौतमं च पश्यतः तद्भ्रासः । गौतमश्च भगवदपेक्षया हीनः छद्मस्थाsतीर्थकरखादिहेतोः, भगवाश्वोत्तमः तीर्थंकरत्वादिहेतुभिरेव इति सिद्ध होनेऽपि शुभभावात् निश्चयनयेन लष्टत्वम् ॥ इत्थमपि यन्निन्दापयन्ति तत्किम् ? इत्याह लट्ठाट्ठाणं सुंदरेण भावेण चिट्ठियं जं तु ॥ निन्दावितयंतं नृणं ताण रोसस्स दुल्ललियं ॥ २१४ ॥ व्याख्या - लष्टानुष्ठानं प्रशस्त क्रियां, सुन्दरेण प्रधानेन,' भावेन चितेन, चेष्टित विहितं यदुपवासादिकं, तुः पूरणे, निन्दापयन्ति दुष्टामिति त्याजयन्ति ' श्रावका For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy