SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७२) व्याख्या -. एकान्तेनैव सर्वथा तद्धर्मकथनं न नैव सुन्दरं भव्यम्, येन तासां साध्वीनां प्रतिषेधो निराकरणं सिद्धान्तदेशनाया आगमकथनस्य । फया प्रतिषेधः १ कल्पस्थितयैव गाथयेत्यर्थः । कल्पगाथामेवाह कुसमयसुईणमहणो विषोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नसो पकप्पजहणा कहेयत्वो ॥ १८३ ॥ व्याख्या-कुसमयश्रुतीनां कुसिद्धान्तमतीनां मथनो विनाशकः, विवोधको विकाशको भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतपत्राणां, धर्मो दानादिको जिनप्रज्ञप्तो मुनीन्द्रगदितः प्रकल्पयतिना निशीथज्ञसाधुना कथयितव्यो न पुनः साध्व्यति हृदयमिति गाथार्थः ॥ ननु यदि तासां स दीयते, ततो निन्धं तद्धर्मकथनमित्याह संपइ पुणो न दिज्जइ पकप्पगंथस्स ताण सुत्तत्थो । जइया वि य दिज्जंतो तइया विय एस पडिसेहो। १८४ ॥ व्याख्या-साम्प्रतमधुना पुनः नैव दीयते वितीर्यते प्रकल्पग्रन्थस्य निशीथस्य तासा-आर्यिकाणां सूत्रार्थः सूत्रेण पद्धत्या साहितोऽर्थोऽभिधेयः मूत्रार्थ उभयमिति हृदयम् , यदापि वा दीयते वितीर्यते म्म, तदापि च तस्मिन्नपि काले एप व्याख्यानकरणलक्षणः प्रतिषेधो निवारणमिति गाथार्थः ॥ अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाहहरिभदधम्मजणणीए किंच जाइणिपवत्तिणीए वि । एगो वि गाहत्थो नो सिट्ठो मुणियतत्ताए ॥ १८५ ॥ व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदात्रीत्वेन प्रतिपन्नमात्रा किश्चाभ्युच्चये याकिनीप्रवर्तिन्या एतन्नाममहत्तरया न केवलपन्याभिरित्यपि शब्दार्थः, एकोऽपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया, तथा च " चक्किदुगं For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy