SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६५) सो अपि प्रकटा। यत एवमत आह एत्तो चिय केइ पुव्वसूरिणो मोक्खसोक्खतल्लिच्छा। आसीसंपि हु दिता अहोमुहाए व दिट्टीए । १५७ ॥ व्याख्या-एतस्मादेव कारणात् केऽपि पुण्यभाजः पूर्वसूरयश्चिरन्तनाचार्या मोक्षसौख्यतल्लिप्सवो निर्वाणसातैकनिष्ठा आशिषमपि धर्मलाभमपि शेषः,न केवलं धर्मकथामित्यपिशब्दार्थः, हुः पूर्ववत् ; अदुर्दत्तवन्तः श्राविकाणा मितिशेषः अधोमुखया न्यग्भूतवक्त्रया दृष्टया लोचनेनेति गाथार्थः ॥ अत्रापि जीवानुशिक्षामाहसिद्धिवधूवरसुहसंगलालसो जीव जह तुम तामा। कहसु तुमं जिणधम्मं अकालचारीसु इत्थीसु ॥ १५८ ॥ सिद्धिवधूवरसुखसङ्गालालसो मुक्तिकान्तामधानसाताभिष्वङ्गलम्पटोजीव प्राणिन् ! यदि त्वं भवान् तस्माद् मा निषेधे, कथय वद जिनधर्म सर्वज्ञवृष, अकालचारिणीषु अप्रस्तावागतासु स्त्रीषु नारीषु इति गाथार्थः ॥ केवलस्त्रीव्याख्यानकथनश्चतुर्विंशतितमोधिकारः साम्पतं पश्चविंशमाहमुद्धजणहिययसंठियदसणवररयणलूडणसयहा । अन्नायसाहुसावयजोगा अन्ने भणंतेवं ॥ १५९ ॥ मुग्धमतिः स्वल्पमतियों जनो लोकस्तस्य हृदयं मानसं तत्र संस्थितमाश्रितं दर्शनं सम्यक्त्वं तदेव वररत्नं प्रधानमाणिक्यं तस्य 'लूडणं' देशीभाषयाऽपहरणं तत्र सतृष्णा बद्धानहा अज्ञातसाधुश्रावकयोगा:-अविदितयतिश्राद्धव्यापारा भणन्ति जल्पन्त्येवं वक्ष्यमाणनीत्या । अयमाशयः-वक्ष्यमाणकथनेऽपि मुग्धश्राव काणां दर्शनपक्षपाताभावेन सम्यक्त्वभ्रंशो भवतीति गाथार्थः ॥ तदेवाह-- For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy