SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६४ ) वासलक्षणं यदनिर्द्धारितस्वरूपं यस्य वा तीर्थकृत आयुष्कं जीवितं तीर्थे प्रतीते तद्भव समानमुत्कृष्टम् । कारणवृद्धावासमाद - जङ्घावले जानुसामर्थ्ये, वाशब्दः समुच्चये, स च प्रत्येकं सर्वद्वारेषु दृश्यः, क्षीणे भ्रष्टे तरुणवयसोऽपि वृद्धावासं जानीयाद् एवं सर्वत्र योज्यम् । ग्लानत्वे रोगप्रादुर्भावे असहायतायां वा साध्वभावे, दौर्बल्ये दुष्कालादौ आहाराद्यप्राप्त्या बलाभावे, उत्तमायें अनशने प्रतिपन्नः स्थितो निष्पत्तिं सूत्रार्थाभिज्ञतां चैव शब्दः समुच्चयार्थः तरूणानां स्वशिष्याणां करोति । इति गाथात्रयार्थः ॥ प्रस्तुतोपयोगिद्वारव्याख्यानार्थ गाथार्द्धमाह निष्कत्ती तरूणाणं अंतिमदारस्त्र विवरणं तत्थ । व्याख्या - निष्पत्तिं गीताधान तरूणानां शिष्याणामिति अन्तिमद्वारस्य विवरणं व्याख्यानं तत्र व्यवहारे || इति गाथार्थः ॥ तदक्षरैरेवोत्तरार्धमाह- आयपरे निष्फली कुणमाणे यावि अच्छेजा ॥ व्याख्या-- आत्मनः स्वस्य परस्य वा शिष्यादेर्निष्पत्तिं कोविदतां कुर्वाणापि विदधानः 'अच्छेज 'ति तिष्ठेत् पूर्वोक्तकालमानं ' वारस वासे ' त्यादिकं वसेद् । अत्र च यत्पूर्वार्द्ध उक्तम् ' अन्तिमदारस्स विवरणं' इति तद् गाथापेक्षया समत्रसेयम्, अन्यथा तत्र द्वितीयेयं गाथा - - " खित्ताणं व अलंभे कयसंलेहे व तरूणपडिकम्मे एहिं कारणेहिं बुढावासं वियाणाहि || " • पठ्यतेऽस्यार्थः - क्षेत्राणां मासकल्पदियोग्यानामलंम्भेऽप्राप्त कृनसंलेखे विहिततपोदेहकु शतायामनशनार्थं तरुणप्रतिकर्मणि मान्योत्तीर्ण साधु वलोपच ये शब्द समुच्चयार्थी । एतैः पूर्वोक्तः कारणैर्हेतुभिर्ब्राएं दीर्घकालवस विजानीहि अवगच्छ इत्युत्तरार्धम् । ' न चैवं मासकल्पस्य भवन्मते व्युच्छेदो न' इत्याह- For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy