SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६१ ) एहिं दोसेहिं जइ असंपत्ति लग्गइ कहवि । दिवसे दिवसे सो खलु का लाइए वसंतो उ ॥ ३ ॥ तथा चूर्ण्य - " जो पुण निकारणे अच्छइ अइरेगं उरेण वा निगच्छ सो पासत्था ठाणेसु वह, तं च पासत्था ठाणसंकिलिट्टै जिणवुत्तं थेरेहिय" इत्यादि । जा (यावद्) हवंति जायन्ते पत्तवृत्ति प्राप्तार्थ गीतार्था इति यावद् इति गाथार्थः ॥ ननु किमेवं विहारकरणे कोऽपि गुणो न विद्यते ? इत्याह इय करणेवि हु कोइ गुणो भवे जइ न ते उ इ य विंति । अन्ने नीयाइगुणा वयं पुणो मासकप्पत्था ॥ १३४ ॥ व्याख्या - इतीत्थंकरणेऽपि विधानेऽपि न केवलं सिद्धान्तोक्तकरणे इत्यपेरर्थः । हुः पूरणे । कोऽपि स्तोको गुणो विशुद्धिकारको भवेज्जायेत यदि न नैव पूर्वोक्तविहारिण इत्येवं ब्रुवन्ति प्रतिपादयन्ति । किम् ? इत्याहअन्ये अस्माद्व्यतिरिक्ता नीत्यादिगुणाः सूत्रत्वाद् नित्यवासपार्श्वस्थादि'वयं पुनः मासकल्पस्था उद्युक्तविहारिण इति गाथार्थः ॥ गुणाः ननु यदि त एव कथयन्ति ततः कथयन्तु । कोऽत्र दोषः ? इत्याह-जं संपन्नगुणोवि हु पुन्नगुणेसु कुणइ अप्पाणं । तस्स हु संमत्तं पि हु निस्सारं होइ किं बहुना ॥ १३५ ॥ व्याख्या - यस्मादसंपूर्णगुणोऽपि अपरिपूर्णगुणोऽपि न केवलं सगुण इत्यपिशब्दार्थः । तथैव । संपूर्णगुणेषु सुसाधुषु करोति विदधाति आत्मानं स्वं तस्यासंपूर्णगुणस्य संपूर्णगुणात्मख्यापकस्य सम्यक्त्वमपि दर्शनमपि न केवलं ज्ञानचारित्रे | हुकारी पूर्ववत् । निस्सारं तुच्छं भवति जायते, किं बहुना जल्पितेनेति शेषो दृश्यः । अस्याच संवादो 'गुणहीणो गुणरयणायरेसु' इत्यादिगाथातोऽवसेयः । इदमत्र हृदयम् — यावदनुष्ठानं क्रियते तावत्कथ्यते, शेषस्य श्रद्धानं शुद्धमरूपणं च विधीयते, अन्यथा महाननर्थः । यत उक्तं व्यवहारे For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy