________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५७) ... व्याख्या-अन्ये पुनरपरे अहंमानिनोऽहंकारिणो निजकाभिप्रायोयुक्तविहारिणो स्वमतसुविहिता निजशिष्यस्कन्धचटिताः स्वसाध्वंसारूढा अटन्ति चरन्ति ग्रामनगरेषु प्रभूतनिवासेषु मासकल्पविहारिणो वयमिति. शेषः । इति गाथाथेः ॥
अत्रापि जीवोपदेशगर्भ विरोधं दशयन् गाथाद्वयमाह
तत्थवि तुम विभावसु अहहो अन्नाणविलसियं एयं । जं जंघाबलहीणाइविहरणं वारियं बहुहा ॥ १२१ ॥ ववहार-पंचकप्पाइएसु गंथेसु सुत्तकेवलिणा।
अइवित्थरण भणियं पजन्ते तत्थिमा गाहा ॥ १२२ ॥ व्याख्या-तत्रापि-स्कन्धचटितविहरणेऽपि त्वं जीव! विभावय चिन्तय अहहो इत्याश्चर्ये । अज्ञानविलसितं मूढताविजृम्भितमेतद् एवं विहरणम् । यस्माजंघाबलहीनादिविहरणम् , आदिशब्दाद् ग्लानादिपरिग्रहः, वारितं निषिद्धं बहुधाऽनेकप्रकारं व्यवहारपञ्चकल्यादिषु प्रतीतेषु ग्रन्थेषु शास्त्रेषु श्रुतकेवलिना भद्रबाहुस्वामिना । कथम् ? इत्याह-अतिविस्तरेण महाप्रपञ्चेन भाणतमुक्तं पर्यन्ते, तदधिकारव्युच्छित्तौ तत्र तेषु ग्रन्थेषु इयमग्रे भणिष्यमाणा गाथा छन्दोविशेषलक्षम् इति गाथार्थः ॥
तामेवाह
जो गाउयं समत्थो सूरादाराम्भ भिक्खवेलाउ ।
विहरउ एसो सपरकमाउ नो विहरितेण ।। १३३ ॥ परं सुबोधा, नवरं प्रहरद्वयेन गव्यूतमेकं यावद् गन्तुं चरणाभ्यां (शक्नोति) तावद् विहरतु, तदभावे स्थानस्थितेनैवासितव्यमिति तात्पर्यार्थः ॥
एवमवगते जीवोपदेशमाह
ता जइ तुहत्थि सत्ती विज्जन्ते सोहणा जइ सहाया ॥
जीव तुमं तो विहरसु अह नो तो संस विहरते ॥ १२४ ।। _ व्याख्या-ततो यदि भवतोऽस्ति विहृते शक्तिः सामर्थ, विद्यन्ते
For Private And Personal Use Only