SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५१ ) तह बंभसंतिमाईण केई वारिंति पूणाईयं । तन्न, जओ सिरिहरिभद्दसूरिणो णुमयमुत्तं च ॥ १०० ॥ व्याख्या - तथेति वादान्तरभणनार्थः । ब्रह्मशान्त्यादीनां मकारः पूर्ववत्, आदिशब्दादम्बिकादिग्रहः, केप्येके वारयन्ति पूजनादिकमादिग्रहणाच्छेषत दौचित्यादिग्रहः । तत्पूजादिनिषेधकरणं नेति निषेधे । यतो यस्माच्छ्री हरिभद्रसूरेः सिद्धान्तादिवृत्तिकर्तुरनुमतमभीष्टं तत्पूजादिविधानं उक्तं च भणितं च पञ्चाशके इति गाथार्थः ॥ तदेवाह साहम्मिया य एए महड्डिया सम्मद्दिट्टिणो जेण । एतो चिय उचियं खलु एएसिं इत्थ पूयाइ ॥ १०१ ॥ व्याख्या - प्रतीतार्था || न केवलं श्रावका एतेषामित्थं कुर्व्वन्ति, यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्व्वन्तीत्याह विग्धविधायण हे जइणोवि कुणंति हंदि उस्सग्गं । वित्ताइदेवयाए सुयकेवलिणा जओ भणियं ॥ १०२ ॥ व्याख्या - विघ्नविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोपि न केवलं श्रावकादय इत्यपि शब्दार्थः कुर्व्वन्ति विदधति, हंदीति कोमलामत्रणे, उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवतायाः, आदिशब्दाद्भवनदेवतादिपरिग्रहः, श्रुतकेवलिना चतुर्द्दश पूर्व्वधरेण यतो यस्माद्भणितं गदितमिति गाथार्थः ॥ तदेवाह - चाउम्मासियवरिसे उ उस्सग्गो स्वेतदेवयाए य । परियमेज्जसुराए करिंति चमासिए वेगे ॥ १०३ ॥ ननु यदि चतुर्मासकादिभणितमिदं किमिति साम्प्रतं नित्यं क्रियते १ इत्याह For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy