SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४७) देशीभाषपा आगछन्ति, दूषयन्ति च निन्दन्ति तान् पार्श्वस्थादीन् । तुस्समुच्चयचकारार्थः, स च दर्शित एव, नेति निषेधे, इदं गमनादि वरं प्रधानं यस्मात तदनुवृत्त्यादिना तत्र स्थातव्यं कारणेनागतैरितरथा दोष इति गाथार्थः ।। अस्यैवार्थस्य साधनार्थमुपदेशपदोक्तं गाथाद्वयमाह अगीयादाइन्ने खेत्ते अन्नत्थ ठिइअभावम्मि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ॥ ८९ ।। इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिपि पावबंधो दुर्गपि एयं अणिटुंतु ॥ २० ॥ व्याख्या-अगीताद्याकीर्णे श्रुतार्थानभिज्ञपार्श्वस्थाद्याकुले क्षेत्रे ग्रामादौ अन्यत्र नगरादौ निर्वाहाभावतः स्थित्यभावे अविद्यमानवासे भावानुपघातानुवर्तनया चित्तासलेशेनानुकूल्येन च तेषां अगीतादीनां तु पादपूरणे वस्तव्यम् । व्यतिरेकमाह-इतरथा ऽनुवत्तेनाद्यभावे स्वपरोपघातः-आत्मान्यसंक्लेशः, 'उच्छोभाइहिं' ति असदोषाविष्करणादिमिः, आदिशब्दादपकारादिग्रहः, आत्मनः स्वस्य लघुता माहात्म्याभावः, तेषां पुनरगीतादीनामपि, तु पुनरर्थः, स च योजित एव, पापबन्धः कलुषोपचयः ।, द्वयमप्येतत् पूर्वोक्तमनिष्टमेव । तुरेवकारार्थः, स च दर्शित एव । न चैतदनार्ष, प्रकरणोक्तत्वात् । यतो निशीथे भणितं-" खेत्तं तु ओसन्नाइ भावियं तत्य तयाणुवत्तीए वसियव्वं " तथा पञ्चकल्पेऽपि भणितं-" अणाययणं वज्जयंतेणं विहारो कायब्यो । के उण अणायणा ? भन्नइ-पासत्थाइणो कुलिंगिणो य ।” एतच्च विशुद्धयत्यपेक्षया बोद्धव्यम् । ये पुनः पूर्वोक्तयुक्त्या पार्श्वस्थादयः सुतरां विवाद एव न कार्य इति गाथाद्वयार्थः ॥ एवं स्थिते जीवोपदेशमाहजइ जीव ! हियच्छेसी तुम तओ कुणसु अप्पणो इ8 । अणुयत्तणाइजुत्तो पात्थाईसु तक्खित्ते ॥ ११ ॥ व्याख्या-यदीति रुच्यर्थः, जीवात्मन् ! हितैषी धर्मगवेषकस्त्वं भवान् ततस्तस्मात् कुरु विधेहि आत्मनः स्वस्येष्टं प्रत्युपेक्षणादि व्यापारम् । For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy