SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २६ ) समाप्तोऽयमार्यिका नन्दिवक्तव्यतार्थः पञ्चमः || अधुना षष्ठः Acharya Shri Kailassagarsuri Gyanmandir आगमरहस्सबज्झा केह असणाई णिवारेंति । तं नो कप सुविहियजईण जेण सुए भणियं ।। २६ ।। व्याख्या– आगमरहस्यबाह्याः सिद्धान्तपरमार्थानभिज्ञाः केचनापरे - अशनादिकं भोजनादिकं, आदिशब्दात्पानीयादिग्रहः, निवारयन्ति निषेधयन्ति । तन्निवारणं नैव कल्पते युज्यते सुविहितयतीनां प्रधानत्रतिनां येन यस्मात् श्रुते द्वितीयाङ्गे भणितमुक्तमिति गाथार्थ: ।। २६ ।। एतदेवाह जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उ णं पडिसेहन्ति वित्तिच्छेयं कुणंति ते ॥ २७ ॥ निगदसिद्धम् । नवरं वृत्तिच्छेदमन्तरायं कुव्र्वन्ति । इदमिह तत्वं- परमते कूपनरसत्रादिदानेऽपि राजादिभिः पृष्ठे निषेधादि निषिद्धं किं पुनः स्वमते इति तात्पर्यार्थः । तर्हि किं तेषां युज्यते ? इत्याह कप्पइ पुण भणि जे अम्हाणं णेय कप्पई एवं | सुविहियजईण परलोयमग्गमुरगं पवन्नाणं ॥ २८ ॥ व्याख्या -कल्पते युक्तं भवति पुनर्भणितुं वक्तुं, 'जे' इति निपातः पूरणार्थः, ' अम्हाणं ' ते अस्माकं नैव नच कल्पते, एवं आधाकर्मादिकं सुविहितयतीनां प्रधानमुनीनां परलोकमार्ग स्वर्गादिविधिमुग्रं प्रधानं प्रपन्नानामाश्रितानामिति गाथार्थः ॥ २८ ॥ ननु पिण्डविशुद्धिकथनमज्ञातं तेषां ततः स्वयमेव ज्ञाते ज्ञास्यन्ति, किमस्माकं तत्र दोषः ? इत्याह- , जंपि य पिंडविसोही कहणं सङ्काण देसियं समए । तंपि य गीयत्थाणं केसिंची ण उण सव्वेसिं ॥ २९ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy