SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) एवंरूपामावश्यकगाथा व्याख्यानयता तचूर्णिकारेण - " आलोयणत्ति जाहे विहारालोयणा वा अवराहालोयणा उवसंपज्जणालोयणा वा संवरणं वेआलियं अंतरावा वा भत्तट्टे गहिए इच्छा जाया 'अज्ज अभत्तङ्कं करेमि त्ति अहवा 'ण जीरइ'त्ति एयं संवरणं नावस्थितमत्र त्रीणि वन्दनकानि न भवन्ति । एकवन्दनपूर्वकं तु यथा पूर्वाचार्यैः कारितं प्रत्याख्यानालोचनं तथा कार्यते, नत्वपराधार्थं वा । तथा चोक्तं - " अवराहो गुरूणं कओ तंपि वंदित्ता खामेइ विणओवयारे । " - इत्यादि गाथोक्तार्थं चेति । किञ्च ये प्रतिक्रमणं कुर्व्वन्ति तेषामेकमपि वन्दनं न भवति । तथा चोक्तं व्यवहारे--" कारणेन पृथग्वसतिस्थिता अपि साधवः प्राभातिक प्रतिक्रमणमाचार्यसमीपे समागत्य कुर्व्वन्तीति स्थितिः, यदि तु सापायमागच्छतां ततो ययन कृतं तस्सर्व्वमागत्य कुर्व्वन्तीति । " एतस्मिन् प्रस्तावे यद्यन्न " अहवा समत्तं आवस्यं काउं जेट्ठो आयरियसगासे आलोइत्ता पच्चक्खाणं गे ।" इदमत्रहृदयं वन्दनकं विनाऽपि आलोचनप्रत्याख्याने कृते । ननु यद्येवं यो न प्रतिक्रामति तस्य त्रीणि तानि भवन्तु तस्यापि नाम प्रतिक्रमणविधिः, कथमन्यथाप्रतिक्रमणद्वारात् आलोचनसंवरणद्वारे पृथगुपाते ? अतो यद्यत्र भणितं तत्तन्नैव कर्त्तव्यम्, अन्यथा सूत्रार्थपौरुषीव्यतिक्रमकरणे कथमवसन्नतादोष: ? प्रायश्चितं च साधोर्भणितमिति । ननु यथा किञ्चित्कर्त्त - व्यमाचरणोक्तं भवति, तथा वन्दनकत्रयमपि भवतु नाम यदि तल्लक्षणमुपपद्यते, परम्परागतबहनुमतान्यानिवारितादिकं येऽपि साम्प्रतं दापयन्ति तेषामपि पूर्वाचार्यैर्न दापितं पूज्यैर्टत्वात् येन तु दापितं सतदैव निषिद्धोऽन्यैर्नापितकरणं सम्मतमिति स्थिते प्रत्याख्यानालोचनाध्वनौ शब्दे मुद्यन्ति सन्दिद्यन्ते मन्दमतयस्तुच्छ धिषणा इति सुष्दूक्तं-" अन्यच यानि वन्दनानि चतुर्दशयतीना मवस्थितानि भणितानि । तथा चोक्तमावश्यके " चत्तारि पडिकमणे किकम्मे तिन्नि होंति सज्झाए । पुव्वण्हे अवरहे किकम्मा चोदस हवन्ति ।। " तेषां वार्तामपि स्वयं न कुर्व्वन्ति, अभणितेषु च श्रावकाणां वन्दनकेraj बद्धाग्रता अहो मतिरिति गाथार्थः ॥ अत्राप्यर्थे जीवोपदेशमाह - तत्थवि तुमं मज्झसु हे जीव ! तह माणधरसु । जो पुव्वसूरिमग्गो, सो सग्गपसाहगो अम्ह || ३० ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy