SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिन कृपाचन्द्र सूरिचरित्रम् ॥ ९७ ॥ www.kobatirth.org तद्यौवराज्यं भजते महौजा, विपक्षकक्षौघतनूनपात्सः । गङ्गाहरिः सद्गुणताऽभिरामः संग्रामजेता हनुमानवा ॥ ३६१ ॥ इत्थं महाऽऽडम्बरतः प्रवेशं कुर्वन् महीयान् जिनकीर्तिस्वरिः । तस्मिन् पुरे विक्रमपूर्वके हि, स्त्रीपुंसवृन्देरभिवन्द्यमानः ।। ३६२ ।। शोभां पुरस्याऽधिकसञ्जितस्य, सत्तोरणाऽऽद्यैः परिवीक्षमाणः । महाऽऽपणाऽऽसनगतोऽतिभक्त्या, पोपूज्यमानः सुचिरं गृहस्थैः ।। ३६३ ॥ जिनेशचैत्यान्यवलोकमानः, स रॉघणीत्याख्यचतुष्पथेन । नाहाटगूवाडमुहलिकायां क्रमागतः श्री ऋषभस्य चैत्ये || ३६४ ॥ (त्रिभिर्विशेषकम् ) युगाऽऽदिनाथं प्रविलोक्य भक्त्या स्तुत्वा तमागाद्वहिरेष यावत् । तावच्च सुश्रावकदानमल - स्तत्र स्थितः शङ्करदानजिच्च ।। ३६५ ।। जजल्पतुस्तं भगवन् ! किलेदं भव्यं विशालं भवनं मदीयम् । भवादृशां पावनपत्कजाना-मावासयोग्यं कृपया पुनीहि ।। ३६६ ।। ( युग्मम् ) सच्छिष्यवृन्दैः सह पार्श्ववर्तिन्यस्मिन् निवासं गुरुवर्य ! नूनम् । कुरुष्व संसारसमुद्रतारिन् । पवित्रय एवं तदवश्यमेव ।। ३६७ ॥ ( शाखिनी ) - ताभ्यामेवं प्रार्थ्यमानोऽसकौ हि, तस्मिन्नेवाऽगार आवासमीड्यः । शिष्यैः सर्वैः सार्धमाकृत्य पश्चात्, प्रोचैः पट्टे सन्निषण्णो महिषुः (मुनीशः) ।। ३६८ ।। ( उपजाति: ) - उपस्थितं तत्र चतुर्विधं श्री संघं पयोदध्वनिजित्सुवाचा । प्रारब्धवान्मङ्गलदेशनां स, महाविशाले रमणीयसौधे ॥ ३६९ ॥ ( मन्दाक्रान्ता ) - अर्हत्सिद्ध-प्रवचनमथाऽऽचार्यवर्य-प्रवृद्धोपाध्यायांस्तानखिलसुमुनीन् ज्ञान-हकूसद्विनीतीः । चारित्रं चाsतुलचलकरं ब्रह्मचर्यं क्रियां च व्यावर्णैप प्रथितविदुषामग्रणीः सूरिराजः || ३७० ॥ ( आर्या ) -- तपो गौतम - जिन चारित्रं ज्ञानं ह्यपूर्वश्रुतं तीर्थम् । इति विंशतिपदकानां स्वरूपाऽऽदीन् वर्णयामास ।। ३७१ ॥ ( युग्मम् ) ( शार्दूलविक्रीडितम् ) --सुरेरास्यसुधामयूख- विगलद्धर्मोपदेशामृतम्, पायम्पायमशेषसभ्यनिवहा मोलु For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir सर्गः । ॥ ९७ ॥
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy