SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ San Mahavia Ardhana Kenda www.kobatirtm.org Acharys 5 kanssagan Gyanmand श्रीजिन- G तृतीयः सर्गः। कृपाचन्द्र सरिचरित्रम् ॥७३॥ KARCHANAKALASS सौख्यसुनायकमुज्ज्वलम् ॥ ४ ॥ तदनु सूर्यपुरं परमर्द्धिक, धुपगतः पुरवासिजनार्चितः । अदित शाश्वतधर्मसुदेशनां, विविध-जन्म-महागदहारिणीम् ।। ५॥ विहरमाण इतो नवसारिका, शुभपुरीमसदत्करुणालयः । सकल-पौरिकसजनसस्कृतो, भवनिवारकधर्ममुपादिशत् ॥ ६ ॥ (शालिनी) चिल्लीमोरापत्तनं चापि गत्वा, लोकैः सर्वैश्वारुसत्कारमाप्तः । धर्माऽधौं तत्फलं चोपदिश्य, भव्याल्लोकान् रञ्जयामास धीरः ॥ ७॥ ( तोटकम् )--वरसाइपुरी सह शिष्यगणेरुपयात इतो विहरनसुकः । परमाऽऽदरमाप्य कृतं सुजनैः, शिवमार्गमदीदृशदेप जनान् ॥ ८॥ (वसन्ततिलका )-- वापीमितः परिययौ विबुधाग्रगन्ता, पौराः समेतगुरुराजममुं प्रहृष्टाः। बेण्डादिवाद्यनिनदैरनयन् पुरांन्त-श्रारूपदेशमददादयमप्यभिज्ञः ॥९॥ (इन्द्रवत्रा)-श्रीग्राममस्माद्विहरन्नुपेतः, पौरबजैर्विहितमुत्सवमेष पश्यन् । कृत्वा प्रवेशमददिष्ट महोपदेशं, लोकाः प्रसेदुरधिकं विविदुश्च धर्मम् ॥१०॥ (नन्दिनी)--समगादितः प्रथितदेणुसंज्ञक, सुपुरं समं निजसुशिष्यमण्डलैः । विपुलोत्सवैः सकलसंघनिर्मितः, समविक्षदेष ददिवांश्च देशनाम् ॥११॥ (उपजातिः)--अगादगासीनगरीमथाऽसौ, पौराश्च निन्युनगराऽन्तरेनम् । वाद्यैश्च गीतैर्जय-तारनादै-रुपादिशचैष जिनोक्तधर्मम् ॥ १२ ॥ अथाऽऽयताऽसौ नगरं भयण्डरं, प्रावेश्यताऽशेषजनमहेन । अदायि चानेन महोपदेशः प्रामोमुदीतेन समस्तपौरः ॥ १३ ।। (प्रहर्पिणी)--अन्धेरीनगरमुपागते च तस्मिन् , सत्पौरा विविधमहोत्सवं वितेनुः। आनिन्युर्दिनमणिभासुरं विभासा, व्याख्यानं रुचिरमदात्स बोधिदायम् ॥ १४ ॥ (इन्द्रवंशा)-माहीसमागत्य पुरं ततोऽसकौ, भव्यांश्च जीवान् प्रतिबोध्य सद्गुरुः । मुम्बापुरीभायखलामुपाययौ, शिष्यैर्गरिदैः परिजुष्टपत्कजः ।। १५ ।। (उपजातिः )--इतो महेभ्याः सकलाः समेत्य, बेण्डाऽऽदिवाद्यैर्जयमुचरन्तः । ॥७३॥ For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy