________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भचिंतनम् ॥ ततो गला मुनिस्थानमथवात्मनिकेतने, निजपापविशुद्ध्यर्थ, कुर्यादावश्यकं सुधीः ॥१॥रात्रिकं स्यादेवसिकं पाक्षिकं चातुर्मासिकम् , सांवत्सरं चेति सुधीः पंचधावश्यकं स्मृतम् ॥२॥ कृतावश्यककर्मा च, स्मृतपूर्वकुलक्रमः, प्रमोदमेदुरस्वान्तः, कीर्तयेन्मंगलस्तुतिम् ॥ ३॥ मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः, मंगलं स्थूलिभद्राधा, जैनो धर्मोस्तु मंगलं ॥४॥ नाभेयाद्या जिनाः सर्वे, भरताद्याश्च चक्रिणः, कुर्वन्तु मंगलं सर्वे, विष्णवः प्रतिविणवः ॥५॥ नामिसिद्धार्थभूपाद्या, जिनानां पितरः समे, पालिताः खंडसाम्राज्याः, जनयन्तु जयं मम ॥ ६॥मरुदेवीत्रिशलाद्या, विख्याता जिनमातरः, त्रिजगजनितानन्दा, मंगलाय भवन्तु मे ॥७॥ श्रीपुंडरीकेन्द्रभूति, प्रमुखा गणधारिणः । श्रुतकेवलिनोऽपीह, मंगलानि दिशन्तु मे ॥ ८॥ ब्राह्मीचन्दनबालाद्या, महासत्यो महत्तराः। अखंडशीललीलाढ्या, यच्छन्तु मम मंगलम् ॥९॥ चक्रेश्वरी सिद्धा. यिका मुख्याः शासनदेवताः, सम्यग्दृशां विघ्नहरा, रचयन्तु जयश्रियम् ॥ १० ॥ कपर्दिमातंगमुख्या, यक्षा विख्यातविक्रमाः, जैनविघ्नहरा नित्यं, दिशन्तु मंगलानि मे ॥११॥ यो मंगलाष्टकमिदं, पटुधीरधीते, प्रातर्नरः, सुकृतभावितचित्तवृत्तिः । सौभाग्यभाग्यकलितो धुतसर्वविघ्नो, नित्यं स मंगलमलं लभते जगत्यां ॥ १२ ॥ इति द्वितीयमंगलाष्टकं संपूर्णम् ॥
॥अथ अहणादिपंचपरमेष्टिमहास्तोत्रं लिख्यते॥ .. अरिहाण नमो पूर्य, अरहंताणं रहस्स रहिआणं, पयओ परमेट्ठीणं, आरुहंताणं धुअरयाणं ॥१॥ निविअ अट्टकम्मिद्धणाण, वर
For Private And Personal Use Only