SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ विचार चातुरी विशिष्टाः शिष्टाः कचिदभीष्टकार्ये प्रवर्त्तमानाः, समस्तसमीहितवितरण विहित सुरकारस्कराहंकार तिरस्कारस्वाभीष्टदेवतानमस्कार पुरस्कारमेव प्रवर्त्तन्ते, अतः समस्तयोगिनीचक्रदेव देवतात्रात विहितशासनाः, नानाप्रभावनाप्रभावित श्रीजिनशासनाः, महर्द्धिक नागदेव श्रावकसमाराधितश्री अंबिका लिखित श्रीजिनदत्तसूरियुगप्रधानेत्यक्षरवाचनमार्जनसमुपार्जित युगप्रधान पद सत्यताप्रधानाः, अकलातिशायिप्रगुणगुणगणमणिखनयः, सकलशिष्ट चूडामणयः प्रबोधितान्यगच्छीया तुच्छ भूरिसूरयः श्रीजिनदत्तसूरयः, इत्यादि ॥ १ ॥ सकल प्रामाणिकेति, प्रमाणं विदन्त्यधीयते वा प्रामाणिकाः, न्यायादेरिकणू, इत्यनेन सूत्रेणेकण् प्रत्ययः, प्रमाणशास्त्रविद इत्यर्थः, एवं लोकव्यवहारवेदिनो लौकिकाः प्रामाणिकाश्च लौकिकाचेति द्वन्द्वस्तेषां यः प्रकृष्टाचारविचारस्तस्य चातुरीचातुर्यतया विशिष्टाः २ समस्तसमीहितेति, समस्तसमीहितानां वितरणेन दानेन विहितः कृतः सुरकारस्करस्य कल्पवृक्षस्य तिरस्कारोऽभिभवो येन एवंविधवासौ योऽभीष्टदेवतानमस्कारथ तस्य पुरस्करणं यस्यां प्रवृत्ताविति क्रियाविशेषणं ३ महर्द्धिक नागदेव श्रावकेण समाराधिताचासौ श्रीअम्बिका च तया लिखितानि च यानि श्रीजिनदत्तसूरिप्रधानेति अक्षराणि च तेषां वाचनमार्जने ताभ्यां समुपार्जिता या युगप्रधानपदस्य सत्यता तथा प्रधाना इति विग्रहः, अत्रायं वृद्धसंप्रदायो नागदेवाभिधः श्राद्धः श्रीनेमिनाथनिनंसया श्रीउज्जयन्तं गतः सन् युगप्रधान गुरुं जिज्ञासुः सप्तभिरूपवासैरम्बिकादेवीमारा ? For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy