________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
च नवप्रमाणानि नयप्रमाणानां वाचः वचनानि नयप्रमाणवाचः । नयप्रमाणवाच एव रश्मयो गभस्तयः नयप्रमाणवाअश्मयः तैर्ध्वस्तं निराकृतं ध्वान्तं येनामी नयप्रमाणवाग्रश्मिध्वस्तध्वान्तः तस्मै नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये पोडशतीर्थकराय । किमुक्तं भवति-शान्तये इमान् स्तवान् प्रयत्य वच्म्यहम् । किं विशिष्टाय शान्तये प्रास्तश्रान्ताकशार्तये नयप्रमाणवाश्मिध्वस्तध्वान्तायेत्यर्थः ।। ७८ ॥
हे देव शान्तिनाथ ! आप दुःखी लोगोंके बड़े २ दुःखोंको दूर करनेवाले हैं, नय तथा प्रमाणोंके वचनरूप किरणसमूहसे मिथ्याज्ञानरूपी अंधकारको नाश करनेवाले हैं। हे प्रभो ! मैं इस स्तुतिके वहानेसे आपसे कुछ कहना चाहता हूं ।। ७८ ॥
सर्वपादमध्ययमकः। स्वसमान समानन्द्या भासमान स मानध । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥७९॥
स्वसेति-सर्वेषु पादेषु समानशब्दः पुनः पुनरुच्चरितो यतः । स्वन आत्मना समान: सदशः स्वसमानः नान्येनोपम इत्यर्थः तस्य सम्बोधनं स्वसमान । समानन्याः क्रियापदम् , सं आङ् पूर्वस्य टुनदिसमृद्धावित्यस्य धो: लिङन्तस्य रूपम् । भासमान शोभमान स: इति तदः कृतात्वस्य रूपम् । मा अस्मदः इबन्तस्य प्रयोगः । अनघ न विद्यते अघ पापं यस्यासावनघः तस्य सम्बोधन हे अनघ धातिचतुष्टयरहित । ध्वंसमानेन नश्यता समः समानः ध्वंसमानसमः नश्यन्समान इत्यर्थः । अनस्तः अविनष्टः त्रासः उद्वेगः भयं यस्य तदनस्तत्रासं, मनः एव मानसं स्वार्थिक: अण् , अनम्तसं मानस यस्यासावनस्तत्रासपानसः । ध्वंसमानसमश्चासौ अनस्तत्रासमानसश्च ध्वंसमानसमानस्तत्रासमानसः तं
For Private And Personal Use Only