SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ स्याद्वादग्रन्थमाला । नन्दिनस्ते विनन्तान नन्तानन्तोभिनन्दन ॥२३॥ नन्दनेति---नन्दना चासौ श्रीश्च नन्दनश्री: पुरुषो वा । हे जिन । त्वा युष्मदः इअन्तस्य प्रयोगः । न न नत्वा किन्तु नत्वैव । ऋद्ध्या विभूत्या सह स्वनन्दि, क्रियाविशेषणम् । स्वनन्दि यथा भवति तथा स्वहर्ष यथा भवति । नन्दिनः समृद्धिमतः । ते तव । विनन्ता च विशेषनन्ता । न न नन्ता स्तोता । अनन्तः अविनश्वरः सिद्धः सम्पद्यते यतः । हे अभिनन्दन । किमुक्तं भवति-हे अभिनन्दन जिन नन्दिनस्ते नन्दनीः ऋद्ध्या सह त्वा न न नत्वा विनन्ता च तव न न स्यात् अनन्तः सवापि अनन्तासद्धः सम्पद्यते ॥ २३ ॥ हे अभिनन्दन जिन ! आप सदा अनन्त चतुष्टयादि समृद्धि कर सुशोभित रहते हैं । हे देव ! जो समृद्धिशाली पुरुष हर्षिता होकर अपनी विभूतिके साथ आपकी पूजा करता है आपको नमस्कार करता है वह अवश्य ही अनन्त अर्थात् अनन्त गुणों का धारक सिद्ध हो जाता है ॥ २३ ॥ गर्भमहादिशैकाक्षरचक्रश्लोकः । नन्दनं त्वाप्यनष्टो न नष्टो नत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥ २४ ॥ नन्दनं त्वेति-नन्दनं वृद्धिकरं । त्या युष्मदः इबन्तस्य रूपम् । आप्य प्राप्य । नष्टो विनष्टो न । नष्टो विनष्टोऽनत्वा अस्तुत्वा । हे अभिनन्दन । नन्दनः प्रीतिकरः स्वरो वचनं यस्यासौ नन्दनस्वरः तस्य सम्बोधनं हे नन्दनस्वर । त्वा इत्यध्याहार्यः । त्वा नवा स्तुत्वा । इन For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy