________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
श्लोकयमकः।
स्वयं शामयितुं नाशं विदित्वा सन्नतस्तु ते । चिराय भवते पीड्यमहोरुगुरवेऽशुचे ॥११॥
स्वयंशमेति-द्वौ श्लोकौ एतौ पृथगों दृष्टव्यौ ।
स्वयं स्वतः । शमयितुं विनाशयितुम् । नाश विनाशम् कर्म । विदित्वा ज्ञात्वा उपलभ्य । सन्नतः सम्यग् नतः प्रणत: । तु अत्यर्थम् । ते तुभ्यम् । चिराय नित्याय अक्षयपदनिमित्तं वा । भवते प्रभवते भूसतायामित्यस्य धोः शत्रन्तस्य अबन्तस्य प्रयोगः । पीड्यं सविधातम्, न पौड्यं अपीड्यम्, महः तेजः, अपोज्यं च तन्महश्च तदषोड्यमहः, अपीड्यमहस: रुक् अपीज्यमहोरुक्, तया उरः महान् अपीड्यमहोरुगुरुः तस्मै अपीज्यमहोरुगुरुवे । अथवा अपीड्यमहाश्च रुगुरुश्चासौ अपीड्यमहोरुगुरुः तस्मै अपीड्यमहोरुगुरवे । शुक् शोकः, न शुक् अशुक् तस्यै अशुचे । अशोकार्थे भवते तेन सम्बन्धः । तदर्थ अवियं दृष्टव्या । अन्यत् सुगमम् । उत्तर श्लोके स्थितं क्रियापदं अपेक्षते ॥ ११ ॥ स्वयं शमयितुं नाशं विदित्वा सन्नतः स्तुते । चिराय भवतेपीड्य महोरुगुरवे शुचे ॥१२ ॥
स्वयमिति---अयः पुण्यम् शोभन: अयः स्वयः तं स्वयम् । शं सुखम् । अयितुं गन्तुम् । ना पुरुषः जीवः । अशं दुःखम् । विद् ज्ञानबान् अथवा विचारवान् । इत्वा गत्वा । सन् विद्यमानः। अत: अस्मात् कारणात् । स्तुते स्तुतिविषये । चिराय चिरेण अनन्तकालेन । अथवा
For Private And Personal Use Only