SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। अक्षरश्लोकः। मानोनानामनूनानां मुनीनां मानिनामिनम् । मनूनामनुनौमीम नेमिनामानमानमन् ॥९७॥ मानोनेनि-मकारनकाराक्षरैर्विरचितो यतः । मानोनानां गर्वहानानां । अनूनानां अहीनानां चारित्रसम्पूर्णानामित्यर्थः । मुनीनां साधूनां । मानिनां पूजितानां । इनं स्वामिनं । मनूनां ज्ञानिनां । मनु शब्दोऽयं मन ज्ञाने इत्यस्य धो: और्णादिकत्यान्तस्य रूपम् । अनुनौमि सुष्टु स्तौमि । इमं प्रत्यक्षवचनं । नेमिनामानं अरिष्टनेमिनाथम् । आनमन् प्रणमन् । अहमिति संबन्ध: । समुदायार्थ:-इमं नेमिनामानं किं विशिष्ठ इन स्वामिनं केषां मुनीनां किं विशिष्टानां मानानाम् अनु नानां मानिनां मनूनां आनमन्नहं अनुनौमि ।। ९७ ॥ हे नेमिनाथ ! आप गवरहित, पूर्ण चारित्रको धारण करनेवाले, महापूज्य और महाज्ञानी मुनियोंके भी स्वामी हैं । अतएव आपको बारबार प्रणाम करता हूं तथा आपकी यह सुंदर स्तुति करता हूं ॥ ९७ ॥ अनुलोमप्रतिलोमैकश्लोकः। तनुतात्सद्यशोमेय शमेवार्य्यवरो गुरु । रुगुरो वयं वामेश यमेशोद्यत्सतानुत ॥९८॥ तनुतादिति-गतप्रत्यागत इत्यर्थः । तनुतात् कुरुतात् । सद्यशः शोभनकीर्ते । अमेय अपरिमेय । शमेव सुखमेव । आर्याणां प्रधानानां वरः श्रेष्ठः आर्यवरः त्वमिति सम्बन्धः । गुरु महत् सुखेन सम्बन्धः । रुचा दीप्त्या उरु: महान् रुगुरुः तस्य सम्बोधनं हे रुगुरो दीप्त्या For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy