SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Son Mahavir Jain Aradhana Kendra Acharya Shri K agarur Gyarmandir श्रीजम्बूस्वामिचरित्रम् ।। ॥८॥ जम्बूकुमारविवाहमहोत्सवः। एवं कथयतामस्माकं दोषो न देयः " । तच्चत्वाऽष्टावपि सखीका महेभ्या अस्मिन् विषये किं कर्तव्यमिति विषीदन्तो निर्णत परस्परं संलपन्ति स्म । तेषां अष्ठिनां संलापमाकर्ण्य ताः कन्या ऊचुः-" हे पितरो ! विचारेणालम् । अत्र निश्चयं शृणुत-युष्माभिर्वयं जम्बूकुमाराय दत्ताः स्मस्तर्हि नोऽयमेव स्वामी, वयं नान्यस्मै दातव्याः, लोकेऽप्येवं प्रसिद्धमस्ति । "सकजल्पन्ति राजानः, सक्रजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥ १॥" पितृ चरणैर्जम्बूकुमाराय वयं समर्पिताः स्मः, तस्मात् स एवास्माकं गतिः । वयं तदधीनजीविताः संजाताः स्मः । तस्माद् यदि जम्बूकुमारः पबज्यामितर बा करिष्यति, तदेवास्माकं पतिव्रतानामुचितमस्ति ।" ततः कन्या जनका जम्बूपितरमूचुः-" साम्प्रत विवाहायोद्यता भवन्तु, प्रथमं वचनं प्रमाणम् "। ततस्तैः श्रेष्ठिभिः सह ऋषभदत्तेन सह नैमित्तिकमुखाचदिनात् सप्तमदिवसे विवाहमुहूर्त निश्चिक्ये । ते महेभ्याः सोदरा प्रातर इब मिलित्वा विशालं विवाहमण्डपं रचयामासुः । तन्मण्डपोपरि विचित्रवर्णवबैरुल्लोचो गगनतलादाकृष्टसन्ध्यामेघखण्डेरिवाभूत् । तत्र सर्वत उच्चूलीकृतानि स्फुरन्ति मुक्कामाख्यानि चन्द्रेण स्वकिरण सर्वस्वं न्यासीकृतमिव प्रतिभान्ति स्म, स मण्डपः पवनान्दोलितपल्लवैरतितारैस्तोरणैर्वराहानेत्रितमिव विपञ्चयनशुभत् । पुनश्च मण्डपः परितः खस्तिकन्यस्तमौक्तिकर्मबलतरूणानुद्भवायोप्तबीजस्तोम इव व्यराजत् । अथ जम्बूकुमारः शुभमुहर्ते वर्णकेऽक्षेपि । कुसुम्भरक्तवत्रधारी स उदयकालिक सूर्य इव रेजे । वर्णके क्षिप्तास्ताः कन्या अप्यसूर्यम्पश्या राजमहिष्य इन बहिर्नाचरन् । अथ शुमे क्षणे स कुमारस्ताः कुमार्यच स्वस्वस्थानस्थिता विधिवन्मङ्गलस्नानमकार्यन्त । For Private And Personal use only
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy