SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kasagarsuri Gyanmandir व्याख्या-'देशविरताना' देशेनेकदेशेन यथागृहीतभङ्गकपालनपरतया विरताः देशे वा विरताः देशविरतास्तेषां सामायिक-सामायिकवतं, देशेनानुमोदनायाः प्रत्याख्येयेऽपि करणत्रयेणाप्यमत्याख्यातत्वात्करणकारणरूपाभ्यामेव करणयेन प्रत्याख्येयस्य प्रत्याख्यातत्वाद्देशेनेति निर्देशः, 'इपचरिक' स्वल्पकालीनं, भवतीत्यध्याहार्य, वीरतीर्थस्थस्य नव्यसाधोवस्तुवृच्या इच्चरसामायिकत्वेऽपि करणकारणानुमतिभिरिति करणत्रयेणापि सावद्ययोगानां प्रत्याख्यातत्वाद्देशेनेति विशेषणं व्यावर्तकमेव, नापार्थ, कस्मात् ? 'सावधयोगपरिवर्जनादनवद्ययोगसेवनात 'कोलिकनलिका'न्यायेन देशेनेति पदं पश्चादपि योज्यं, सहावयेन-दोषेण वर्तन्ते ये ते सावद्यास्ते च ते योगाश्च मनोवाकायरूपास्तेषां परि-सामस्त्येन वर्जन-निषेधस्तस्मादनवद्यानां-निर्दोषाणां योगाना-ध्यानमौनक्रियादिनिबद्धानां सेवनात्समाचरणाद्देशेनैवोपासकानां सामायिके-सावद्ययोगपरिवर्जनमनवद्ययोगासेवनं चेति भावः, सर्वविरतिसामायिके तु भूयसां नयानां समवतारस्तथाचाहावश्यकचूर्णिकृत् “सावज्जजोगविरतो तिगुत्तो छमु संजतो उवउत्तो जतमाणो अत्ता सामाइयं भवति ति" इत्यादि बहुज्ञेयं इति गाथार्थः ।। तदेवं सामायिकस्वरूपं निरूप्य सामायिकस्य फलमाह विहिपुवं गहणणं, विहिपुव्वं पालणण य पसत्थं । सामाइयवयमेयं, वंछियफलदायगं होइ ।३। १न बेदमनागमिक, आवश्यकसूषे बृहवृत्ती च तथैवोक्तत्वात, तथाहि-" सामाश्यं नाम सावज्जजोगपरिवज्जण निवजजोगपडिमेवणं च" इत्येतत्सूत्रव्याख्याने श्रीमदरिभानमरिभिः "अवयं-गर्हित पाप, सहानद्येन सावद्यः, योगो-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्याग: कालावधिनेति गम्यते, तत्र मा भूत्सावधयोगपरिजर्जनमात्रमपापल्यापारासेवनशून्पमित्यत भाइ-निरवद्ययोगप्रतिसेवनं चेति" इत्यनेन सावधयोगपरिवर्जनपुरस्सरमेव निरवद्ययोगप्रतिसेवनं कर्तव्यतया स्पष्ट प्रतिपादितं, ततश्च युक्तमेव पूर्व सावधयोगपरिवर्जनरूपसामायिकदण्डकोचारण पश्चादेन निरबद्ययोगप्रतिसेवनरूपमीर्यापथिकीप्रतिक्रमणमिति । For Private And Personal use only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy