SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir यिकं करोति, यदा प्रणिपातानन्तरमित्यनेनाचित्यासन्नविधिरभिहितः, साधुन्वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्राहचैत्यानि तत्र तद्वन्दनापूर्व सामायिकं ग्राह्य, चैत्यवन्दना तु प्रणिपातदण्डकपूर्विर्फवेति" (२४२ पत्रे), एतत्पाठानुसारेणोभयार्थप्ररूपणायां चैत्यवन्दना सामायिककरणात्यागेव प्ररूपिता, अपरं च श्रीनवपदप्रकरणस्य श्रीदेवगुप्तमरिकृतस्वोपज्ञविवरणे (४२ पत्रे) यथा “साहु समीवे पत्तो पुणो वि सामाइयं करेइ, इरियावहियाए पडिकमइ, तो जइ चेइयाई अस्थि तो पढमं वेश्याई वंदइ" एवंविधवाक्येन सामायिकदण्डकोचारादच्यवहिर्यापथिकीप्रतिक्रमणात्पश्चाचं चैत्यवन्दनस्य न्यसनमव्यस्त(मविपरीत)मेव, आवश्यकचूर्णी तु साक्षादेव सामायिकदण्डकात्पादीर्यापथिकायाच पूर्व चैत्यवन्दनापाठाचैत्यवन्दनस्य सामायिकर्ययोरभ्यन्तर्गतत्वं बोधितं, तथा "इहरसाहुगिहमाइएमु" इति पूर्वोक्तगाथा व्याख्याने श्रीयशोदेवोपाध्यायः सामायिकात्यागेव चैत्यवन्दना प्रत्यपादी, तदेवं चैत्यवन्दने सामाचारी विशेषाद्विसदृशत्वं ज्ञेयं, साम्प्रतश्च न कस्मिन्नपि गच्छे इयं सामाचारी-यत्सामायिकेर्यापथिकयोर्मध्ये चैत्यवन्दना क्रियते, यदि च कस्मिंश्चिद्गच्छे सा स्याचदा स्यात् , तथात्वेऽपि सामायिकदण्डकात्पश्चाश्चमेवायातमीर्यापथिकायाः, का नो हानिः १, सिदं नः समीहितं, बद्धा आवश्यकचूणौँ "जइ चेझ्याई अस्थि तो पढमं चेइयाई वंदइ" इति वाक्ये 'प्रथम'मिति सामायिकात्मागू इत्यर्थोऽवसेयः, “पणिवायाणतरसाहुबंदण"मिति पाठे नवपदप्रकरणत्तिकृता “यत्राहश्चत्यानि तत्र तद्वन्दनापूर्वं सामायिक ग्राह्य"मित्यर्थकरणेनैतदर्थस्यैव समर्थनात् , तथा च नाशकालेशोऽपि भाव्यः इति गाथार्थः ।। ननु पूर्वसमाधाने सामायिकेर्यापथिकयोः सम्बन्धः साक्षापो गतः, गते एव कथमिष्टसिद्धिरित्यत आह सामाइयइरियाणं, न य कारणकजभावसंबंधो । पुव्वावरभावाओ, सज्झायाईण सा हेऊ ।९।। व्याख्या-सामायिक चेर्या च सामायिकेर्य, तयोः सामायिकेर्ययोः कारणकार्यभावसम्बन्धः, चस्यैवार्थत्वा न च नैव, अयंभावः For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy