SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७१ ) रास्नैरंडशिफा दारु वचा शुंठी दुरालभा । अभयातिविषा मुस्ता शतमूली वृषामृता ॥ ७१ ॥ अमीषांक्काथपानेन कासः श्लेष्मा च संधिगः । मज्जास्थिस्नायुसर्वागवायुर्नश्यति निश्चितम् ॥ ७२ ॥ रास्ना शतावरी दारुकं कोली लांगली कणा । रक्तचंदनमंजिष्ठा वृद्धिः सैंधवपद्मकं ॥ ७३ ॥ अश्वगंधांमृतापाठा मुस्तैला शालिपिप्पली । शतपुष्पाजमोदा च शुंठी कुष्टं समांशतः ॥ ७४ ॥ सघृतं चूर्णमेतेषां भक्षितं तप्तवारिणा । त्वगस्थिस्नायु संधिस्थं मारुतं हन्ति वेगतः ॥ ७५ ॥ अजमोदाभ्रकं रास्ना गडूची विश्वभेषजं । शतपुष्पाश्वगंधा च शतमूली समांशतः ॥ ७६ ॥ सुश्लक्ष्णचूर्णमेतेषां भक्षितं सर्पिषा सह । हृत्पृष्टकटिकोष्टस्थं मारुतं हन्ति वेगतः ॥ ७७ ॥ विश्वैरंडशिफा शुंठी दारु कुष्टं च सैंधवम् । रानामृतोद्भवं चूर्ण गुग्गुलुर्द्विगुणोत्तरः ॥ ७८ ॥ एकैका गुटिका तस्य प्रत्यहं भक्षिता सती । पथ्याशिनोतिवेगेन हन्ति विभ्रममारुतम् ॥ ७९ ॥ शिशुछल्ली कणा रास्ना शुंठी गोक्षुरसैंधवम् । वन्हिरेरंडमूलं च चूर्णमेषां समांशतः ॥ ८० ॥ गुटिका प्रत्यहं तासामेकैकाशनतो ध्रुवम् । सर्वागकुपितं वायुं शमयत्यतिवेगतः ॥ ८१ ॥ कणा मूलं कणादारु विडंगं वन्हिसैंधवम् । शतपुष्पाजमोदा च मरिचं समचूर्णकम् ॥ ८२ ॥ गुडान्वितस्य तस्याथ गुटिका एकविंशतिः । भक्षितास्तास्त्रिसप्ताहं मारुतं घ्नन्तिसर्वतः ॥ ८३ ॥ कटुकीद्रयवापाठा पावकोतिविषा निशा । एतेषां चूर्णमुष्णांभः पीतं हन्त्यनलान् बहून् ॥ ८४ ॥ यवानीचूर्णसंमिश्रं शृंगवेररसस्तनौ । मर्दनान्नस्यतो हन्ति कुपितं मारुतं ध्रुवम् ॥ ८५ ॥ शुंठीमरिचदारुणां चूर्णक्वाथस्यपानतः । सर्वे वाता विनश्यति देहोपद्रवकारिणः ॥ ८६ ॥ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy