SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 3fश्रीगणेशायनमः ॥ अथगादाधरी सव्यभिचारसामान्यलक्षण मनुन्वा मूलकत स्तहिाजन माक्षिपति । यद्यपीति लक्षणतः लक्षणवाक्यतः सामान्यम् साधारणासाधारणानुपसंहारित्रितयसाधारणधर्म मऽप्रतीतवतों ऽतेवासिन | इतिशेषः विशेषजिज्ञासानुदयात् आवांतरधर्मप्रकारकज्ञानेशोत्पत्यसंभवात् सामान्यज्ञानस्य विशेषजिज्ञासायां स्वातंत्र्येणे (१)ष्टसाधनताज्ञानधर्मितावच्छेदकज्ञानसंपादकतया वा हेतुत्वादितिभावः । सामान्य लक्षणानंतरं । सव्यभिचारसामान्यलक्षणानंतर विभागः सव्यभिचारविभागः सव्यभिचारत्वावान्तरधर्मपुरष्कारेणधर्मिप्रतिपादनमितियावत् नायग्रंथोविभागपरः अपितु असाधारणानुपसंहारिणो रलक्ष्यताभ्रमनिबंधनवक्ष्यमाणसामान्यलक्षणातिव्याप्तिभ्रमनिराकरणाय त्रयाणां लक्ष्यताप्रदर्शनपर इति समाधत्ते तथापीति । साधारणमात्रे प्रसिद्धतया भूरिपयोगविषय साधारणमात्रकतया तन्मात्रस्य साधारणमात्रस्य अतिव्याप्तिः प्रतीयेत इति संबध्यते तदव्यावृत्तस्य असाधारणादिव्यावृत्तस्य साधुता निर्दोषता लक्ष्यांतर मिति तथाच सव्यभिचार इति मूलस्य वक्ष्यमाणसव्यभिचारसामान्यलक्षणलक्ष्य इत्यर्थः एतद् ग्रंथस्य विभागपरत्व मुपपादयतो मत माह। कश्चिदिति । सामान्यज्ञानाधीनः सामान्यज्ञानसामान्याधीनः तल्लक्षणप्रत्ययम् लक्षणवाक्याधीनसामान्यज्ञानमात्रम् अत्रच विभागोपयुक्तसामान्यज्ञानस्यो पायान्तरतो ऽभ्युपगमे पश्चादपि सामान्यलक्षणाभिधान मसंगत मनाकांक्षितत्वा दित्यस्वरससूचनाय काश्च दित्युक्तम् अथवा सामान्यज्ञानाधीनः त्रितय साधारणा किंचिद्दर्मावच्छिन्नज्ञानाधीन: तल्लक्षणप्रत्ययम् सव्यभिचारपदार्थतावच्छेदकवक्ष्यमाणलक्षणज्ञानम् अपेक्षते अत इति तादशलक्षणाज्ञानेपि (१) टिप्पणी-श्रीगणेशायनमः ॥ इष्ट साधनता ज्ञानस्याकारं च सव्यभिचारत्वा वान्तर धर्म प्रकारक ज्ञान मदीष्ट साधनं तारशज्ञान धर्मिता. वच्छदकं । आवान्तर धर्मप्रकारक ज्ञानत्वं तनु सव्यभिचार ज्ञानाधीनं । अत : धर्मिता वच्छेदक संपादकतया हेतुत्व मस्तीति भाव : ॥ For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy