________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
તૃતીયસ્થાન–અધ્યાય નવમો.
४२३
शृङ्गी बला चामलकी जीवन्ती पुष्कराह्वयम् । द्राक्षाभयामृता मेदा चन्दनागरपद्मकम् ॥ बलाद्वयं तु पण्यौं द्वे जीवकर्षभकांबुदा। काकोली क्षीरकाकोली विदार्याः कन्द एव च ॥ सर्वेषां पलिका मात्रा योजयेद् भिषजां वरः!। धात्रीफलं पञ्चशतं सुपक्करससंयुतम् ॥ जलद्रोणे विपक्तव्यं चतुर्भागावशेषितम् । तञ्च निर्वाप्य मतिमानामलकानि समुद्धरेत् ॥ तत् काथं कल्कयेत् तावत् यावदर्वीप्रलेपकः । पुनस्तैलेन वाज्येन पक्त्वा चामलकीफलान् ॥ पाचितान चूर्णितान् सर्वान् समशर्करया युतान् । चतुःपलातुगाक्षीरैर्योजयेद् भिषजां वरः॥ पिप्पलीनां सहस्त्रैकं त्वगेलापत्रक तथा । एषां द्विपलिकां मात्रां विदध्यात् तत्र सत्तमः । सर्व प्राक् कथिते लेहे योजयेच्च विचूर्णितम् । सारघेण समं लिह्यात् नराणां च रसायनम् ।। श्वासकासक्षयपाण्डुकामलानां विशोषणम् । क्षीणक्षतानां बालानां वृद्धानां देहवर्धनम् ॥ स्वरभङ्गपिपासानां हृद्रोगं पित्तशोणितम् । शुक्रदोषं शिरोरोगं पीनसं चापकर्षति ॥ जीर्णज्वरं च मन्दाग्निं कुष्ठं दुष्टं भगन्दरम् । मेहं कृच्छ्राश्मरी हन्ति तथा रोचनवारणम् ॥ हृद्रोगशूलमानाहं नाशयत्यविसंशयम् । वन्ध्यानां पुत्रजननं वृद्धानामल्परेतसाम् ॥ षण्ढोऽपि जायते चैव सदा ऋतुकरः परः।
१ भंगी शीता तामलकी जयंती पुष्कराह्वयम्. प्र. १ ली. २ बलाह्वयं तु कर्णे द्वे जीवकर्षभकावुभौ. प्र. १ ली.
For Private and Personal Use Only