SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीः । हरीतक्यादिनिघंटे अथ मांसवर्गः । Acharya Shri Kailassagarsuri Gyanmandir तत्र मांसस्य नामानि गुणाश्च. मांसं तु पिशितं क्रव्यमामिषं पललं पलम् । मांसं वातहरं सर्वं बृंहणं बलपुष्टिकृत् ॥ १ ॥ प्रीणनं गुरु हृद्यं च मधुरं रसपाकयोः । मांसवर्गों द्विधा ज्ञेयो जाङ्गलाऽनुपभेदतः ॥ २॥ मांसवर्गोऽव जगाला विलस्थाश्च गुहाशयाः । तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदोऽपि च ॥ ३ ॥ प्रसहाश्चाप्यथ ग्राम्या अष्टौ जाङ्गलजातयः । जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ॥ ४ ॥ बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः । मूकतां मिन्मिनात्वं च गद्गदत्वार्दिते तथा ॥ ५॥ बाधिर्यमरुचिच्छर्दिप्रमेहं मुखजान्गदान् । श्लीपदं गलगण्डं च नाशयत्यनिलामयान् ॥ ६ ॥ कूलेचराः प्लवाश्वापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः ॥ ७ ॥ आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥ ८ ॥ तथाभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः । हरिणैण कुरङ्गयष्टषतन्यङ्कुसम्बराः ॥ ९ ॥ For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy