SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shindra SHREGALLECTREKeratulack समत्था, तिवग्गसुत्तत्थगहियपेयाला।।उभओलोगफलबई विणयसमुत्था हवइ बुद्धी।।९४३॥"(आव० भाष्य[भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतसारा (प्रमाणा)। उभयलोकफलवती विनयसमुत्था भवति बुद्धिः] इतिवचनाद् वैनयिक्यामश्रुतनिश्रितायामपि श्रुताभ्यासापेक्षास्ति, तथापि श्रुतानुबुद्धक्षयोपशमजन्यावृत्तिश्रुतानुसारहनिवृत्तिजातिमज्ज्ञानत्वं श्रुतोबुद्धक्षयोपशमजन्यत्वाव्यभिचारि तादृशजातिमज्ज्ञानत्वं वा श्रुतनिश्रितत्वमित्यत्र तात्पर्यम् , अत एवाह "किन्तु सकृच्छ्रतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकत्याश्रुतनिश्रितं तदुच्यत इत्यदोष" इति, इदमेवाभिप्रेत्य चाह भाष्यकारः।। "जइ तं सुएण ण तओ, जाणइ सुअनिस्सिमें कह मणियं ॥ जं सुअकओवयारं, पुचि इण्डिं तयणवेक्खं ॥१६॥" [यदि तत् श्रुतेन न स जानाति श्रुतनिश्रितं कथं भणितं ॥ यत् श्रुतकृतोपचार, पूर्वमिदानीं तदनपेक्षम् ] "पुचि सुअपरिकम्मिअ-मइस्स जं संपयं सुआईयं ॥ तं निस्सिअमियरं पुण, अणिस्सिों मइचउकं तं ॥१६९॥"[पूर्व श्रुतपरिकर्मितमतेर्वत्सांप्रतं श्रुताततिम् । तनिश्रितमितरत्पुनरनिश्रितं मतिचतुष्कं तत्।। यद्यपि विशेषणधीत्वेन श्रुतानुसारो विशिष्टेऽश्रुतनिश्रितेऽपि पदधीत्वेन च न श्रुतनिश्रितेऽपि, तथापि श्रुतादवगतमिदमिति प्रतीतिसाक्षिको विषयताविशेष एव श्रुतानुसारोव ग्रायः॥५३ ।। नन्वेवं यदि श्रुतनिश्रिताऽश्रुतनिश्रिता वा मतिरवग्रहरूपा निरभिलापा, इंहादिरूपा च साभिलापा, श्रुतमपि च प्रागुक्तरीत्या द्विविधं तर्हि कोऽनयोर्भेद ? इति सुहृद्भावेन पृच्छाम इति चेत्, उच्यते द्विविधापि मतिस्तस्माद, द्विरूपैवेति का भिदा ॥ तद् द्रव्याक्षरभेदेन, भावनीया भिदाऽनयोः॥५४॥ यद्यपि भावाक्षरेणावग्रहेहादिरूपमतेर्भावद्रव्याक्षराभ्यां च श्रुतस्य द्वैविध्यमापततोऽविशिष्टं, तथापि मतौ पुस्तकादिगतं ताल्वादिव्यापारजन्यं च द्रव्यश्रुतं नास्त्येव द्रव्यश्रुतस्य द्रव्यमतित्वेनारूढत्वादिति, द्रव्याक्षरेणानक्षरैव मतिः, श्रुतं तु द्रव्यश्रुत अक्षरानक्षरतो मतिश्रुतमेदनिरूपणे शु. तनिभितत्वश्रुतानि श्रितत्वयोनिरूपणम्॥ SHREEKRESS For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy