SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shindra सविवरणं श्रीज्ञाना व प्रकरणम् ॥ NAGARIKUKUMACHAR हेतुकमिति तदभिन्नत्वे सति ततो भिन्नमिति, न च भेदमात्रस्याकांक्षितत्वादधिकाभिधाने निग्रहः एकद्रव्यत्वेनाऽभेदोपस्थिती कथमभेदे भेद इत्याशङ्कायामेतदभिधानाद्.अथवाऽभेदे कार्यकारणभाव एव कथं मतिश्रुतयोः, इत्याशङ्कोत्थानादेतदभिधानं, तदुच्छेदश्च वल्कसुम्बयोरिवाऽनुकृतान्वयव्यतिरेकयोस्तयोरभेदेऽपि कार्यकारणभावानुमानाद्, न चार्थान्तरं भेदग्राहकहेतुफलभावग्रहापयिकत्वादेवास्य ॥ ४९ ॥ वल्कसुम्बोदाहरणान्मतिश्रतयोमैदमभिधायाक्षरानक्षरतस्तमभिधित्सुः परमतं दूषयतिअनक्षराक्षरभेदा-दुक्ताव(ट्रिन्दन्त्य)न्ये मतिश्रुते ॥ तदसत्, साभिलापा य-न्मतिरेवं विलीयते ॥५०॥ मतिज्ञानमनक्षरमेव, श्रुतज्ञानं तु श्रुतरूपमक्षरवदुच्छ्वसितादि चानक्षरमित्युभयात्मकमित्यनयोर्भेद इति केचिदाहः, तत्रैवं सत्ययं स्थाणुवों पुरुषो वेति विकल्परूपाया ईहामतरूच्छेदप्रसङ्गात, न हि शब्दनिर्भासं विना विकल्पत्वं नाम, किञ्चैवमवग्रहवदीहादीनामन्वयव्यतिरेकधर्मपरामर्शित्वरूपो विवेको न स्यात्, अथ सप्रकारकज्ञानत्वेनैव विवेचकत्वं, नतु साक्षरत्वेनेति, ईहादेः सप्रकारकत्वेऽपि नाक्षरानुगतत्वमिति चेत्, तर्हि श्रुतस्यापि साक्षरत्वे प्रमाणमन्वेषणीयं, किञ्च ज्ञानविषययोः स्वरूपविशेष एव प्रकारता, इतीहादौ शब्द एव विशेषः प्रकारताख्यामाबिभर्तीति कथमस्यानक्षरत्वं, न चातिरिक्तैव प्रकारतेति युक्तं, 'धर्मिकल्पनातो धर्मकल्पना लघीयसी'इति न्यायेन ज्ञाने शब्दाकारपरिणामरूपाया एव तस्याः कल्पयितुं युक्तत्वात्, तदिदमाह-"अन्ने अणक्खरऽक्खर-विसेसओ मइसुआई भिंदति ।। जं मइनाणमणक्खर-मक्खरमियरं च सुयनाणं ।।१६२॥" [अन्येऽनक्षराक्षरविशेषतो मतिश्रुते भिन्दन्ति । यन्मतिज्ञानमनक्षरमक्षरमितरच्च श्रुतज्ञानम् ॥] "जइ मइरणक्खरच्चिय, हवेज्ज नेहादओ णिरभिलप्पे ।। थाणुपुरिसाइपज्जाय-विवेगो किह णु होजाहि ? ॥ १६३ ॥" [यदि मतिरनक्षरैव भवेन्नेहादयो निरभिलाप्ये ॥ स्थाणुपुरुषादि अक्षरानक्ष रतो मतिश्रुतभेदनिरूपणे परविप्रतिपत्तिखण्ड नम् ॥ RECRUS ॥ २३॥ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy