________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णवप्रकरणम् ॥
॥ १८ ॥
www.ketafirth.org
भास अतभागं, मण्णइ जम्हा सुए भणियं ॥ १४० ॥" [कुत एतावन्मात्रा मावश्रुतमत्योः पर्याया येषाम् || भाषतेऽनन्तभागं भण्यते यस्माच्छ्रुतेऽभिहितम् ] “पणवणिज्जाभावा, अनंतभागो उ "अणमिलप्पाणं ॥ पण्णवणिज्जाणं पुण, अनंतभागो सुअनिबद्धो” ॥ १४९ ॥ [ प्रज्ञापनीया भावा अनन्तभागस्त्वनभिलाप्यानाम् ॥ प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ ] एवं च भागकारेण गुणकारानुमानादनन्तगुणत्वं तेषां सिद्धमिति भावः ||३४|| उक्तमेवोपपादयितुमाह
अत एव च पूर्वज्ञा, नूनं षट्स्थानगामिनः । समाक्षरा अप्यसमाः, श्रुताभ्यन्तरया धिया ।। ३५ ।।
यतोऽभिलाप्य भावानामनन्तभाग एव सूत्रे निबद्धोऽत एव पूर्वज्ञानां ।। " अगंतभागहीणे वा, "असंखिज्जभागहीणे वा, संखिज्जभागहीणे वा, संखेज्जगुणहीणे वा, असंखेज्जगुणहीणे वा, अणतगुणहीणे वा" इति सूत्रोक्तं हीनत्वघटितं, “अणंतभागन्भहिए वा, असंखेज्जभाग भहिए वा, संखेज्जभागन्भहिए वा, संखेज्जगुणन्भहिए वा, असंखेज्जगुण भहिए वा, अणतगुणन्भहिए वा" इति सूत्रोक्तं चाधिक्यघटितं षट्रस्थानगामित्वं सङ्गच्छते । सर्वश्रुतार्थनिबन्धे च सर्वेषां साम्यापत्तिः ।। ननु हीनाधिकभावः कथं सर्वेषां चतुर्दशपूर्वविच्चे । उच्यते तावदक्षरलाभाविशेषेऽपि तदभ्यन्तरमतिवैषम्यात्, नन्वेवमपि श्रुतापेक्षया न षटूस्थानोपनिपातोऽपि तु मृत्यपेक्षयेति चेत्, न, श्रुताभ्यन्तरमतेरपि श्रुतानुसारितया श्रुतस्वरूपत्वात् । तदिदमाह-"जं चोदसपुव्वधरा, उडाणगया परोप्परं होंति ।। तेण उ अणतभागो, पनवणिज्जाण जं सुतं ।। १४२ ।।" [ यच्चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति । तेन त्वनन्तभागः, प्रज्ञापनीयानां यत्सूत्रं ।।] " अक्खरलंभेण समा ऊणहिआ हुंति मइविसेसेहिं ॥ ते उण (विय) मईविसेसे, सुअना - मंतरे जाण ।। १४३ ॥ [ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः ।। तानपि च मतिविशेषान्, श्रुतज्ञानाभ्यन्तरे
For Private And Personal Use Only
67
Acharya Shel Kalassagarsun Gyanmandir
इन्द्रियत्रिभागान्मतिश्रुत
भेदाभिधाने
मतिश्रुतोपल्लब्धार्थानन्त
भाग एव भाप्यतइत्या
स्य भाष्या
नुसार्युपपादनम् ॥
।। १८ ।।