________________
SimMatiavt JaimArashana.kindra
सविवरणं श्रीज्ञाना
र्णवप्रकरणम्॥ ॥८॥
हेतुफलमावान्मतिश्रुतयोर्भेदोपदर्शनं तत्र
पृधात्वर्थ
चान्यतस्तत्प्राप्यते, गृह्यते परोपदेशश्रवणादिरूपमतरेव तदाहितसंस्कारद्वारा श्रुतहेतुत्वाद्, एवं च श्रुतमात्र एव द्रव्यश्रुतग्रहणस्य हेतुत्वं लभ्यते, तथाभूतयैव च तयाञ्ज्यस्मै तद् दीयते व्याख्यायते, एवञ्च व्याख्यानुकूलश्रुतसङ्कल्पे तदिष्टसाधनतामतेहेतुत्वं व्यज्यते तथाभूतयैव च मत्या परावर्त्तनचिन्तनद्वारा गृहीतं श्रुतं स्थिरीक्रियते, इत्थं चाविस्मृत्यनुकूलधारणाव्यापाररूपाया मतेरुत्तरकालिकपरिस्फूर्तिरूपश्रुतहेतुत्वं व्यवस्थाप्यते, यद्यपि 'पृपालनपूरणयोः' इतिपाठात्प्राप्त्यादेर्नेतद्धात्वर्थत्वम् , तथापि प्राप्तिदानयोः पूरणविशेषत्वाद्न किश्चिदनुपपन्नम्, एवञ्च मतिश्रुते कार्यकारणभावादेव परस्परं भिद्यते ॥ अभेदे सव्येतरगोविषाणयोरिख कार्यकारणभावाभावात् , आह च-" मइपुवं सुअमुर्त, ण मई सुयपुब्बिआ विसेसोयं ॥ पुचि पालणपूरण-भावाओ जे मई तस्स ।। १०५॥" [मतिपूर्व श्रुतमुक्त, न मतिः श्रुतपूर्विका विशेषोऽयम् ॥ पूर्व पालनपूरणभावात् यन्मतिस्तस्य ] "पूरिज्जह पाविज्जइ, दिज्जइ वा जं मईइ नाऽमहणा ॥ पालिज्जइ अ मईए, गहियं इहरा पणस्सज्जा ॥१०६॥" [पूर्यते प्राप्यते दीयते वा यन्मत्या नाऽमत्या ॥ पाल्यते च मत्या गृहीतं, इतरथा प्रणश्येत् ॥] यद्यपि प्रागभावावच्छिनकालसम्बन्ध एवं पूर्वपदार्थो नतु कारणत्वं गौरवात, अकारणेऽपि पूर्वपदव्यवहाराच, तथाप्यन्वयव्यतिरेकाभ्यां मतेः । श्रुतहेतुत्वावधारणादत्र पूर्वपदस्य कारण लक्षणा, न चात्र बीजाभावस्तात्पर्यान्यथानुपपरेवैतद्वाजत्वात्, तथातात्पर्य विनतदभिधानस्य निष्प्रयोजनत्वात्, ननु ज्ञानाज्ञानरूपयोर्मतिश्रुतयोः पृथक् समकालमेव लाभोपदेशात् कथं तयोर्हेतुहेतुमद्भावः, अन्यथाप्रतिपत्तौ तु मतिज्ञानलाभकाले श्रुतज्ञानालाभाव, श्रुताज्ञानानहानिप्रसङ्मादन्यज्ञानस्याज्ञानानिवर्तकत्वादिति चेत्, लन्धिरूपमतिश्रुतयोलाभस्यैव योगपद्योक्तेः, उपयोगयोस्तु तथास्वाभाच्यात्क्रमोपचेखे व्यवस्थितत्वात्, आह च-"नाणाण
प्रपञ्चनं तत्र |भाष्यसंवादः
पूर्वपदस्य | कारणत्वेल क्षणायां वीजप्रदर्शन
IN
॥
८
॥
For Private And Personal use only