SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org भन्ने स्वाम्यादिसाधर्म्या - यद्यपि मतिश्रुते ॥ लक्षणादिकृतो भेद-स्तथापि स्फुटमेतयोः ॥ ५ ॥ • साधर्म्यं खल्वभेदो वैधर्म्य च भेदः, न चानयोरसमावेशः, प्रमेयत्वादिना सर्वेषां साधर्म्येऽपि मिथो भेददर्शनात्, एवं च मतिश्रुतयोः स्वाम्यादिसाम्येऽपि लक्षणभेदादविरुद्धो भेदः । उक्तश्च - "सामिचाइविसेसा - भावाओ महसुएगया णाम ।। लक्खणभेआइकयं णाणत्तं तयविसेसेवि ॥ ९६ ॥ " [ स्वामित्वादिविशेषाभावाद्मतिश्रुतैकता नाम । लक्षणभेदादिकृतं नानात्वं तदविशेषेऽपि ] अथ भेदे लक्षणादिकृतत्वं तज्ज्ञानज्ञाप्यत्वं साध्यसाधनयोरभेदे न सम्भवतीति चेत्, न, श्रुतलक्षणेन श्रुते मतिवैधर्म्यरूपस्य तस्य मत्यवृत्तिधर्मत्वेन साध्यत्वे तदविशेषाच्छ्रते श्रुतत्वग्रहेऽपि मत्यष्वा तत्वेन तदग्रहेसिद्व साधनानत्र का शादिति ॥ ५॥ अथ लक्षणादयश्र लक्षण - हेतु - फल - भाव-भेदेन्द्रियविभाग - वलका - Sक्षर-मुकेतराणि, तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथमं लक्षणभेदमेवाह श्रुतं श्रुतानुसारि स्यान्मतिरन्यत्परोक्षजम् ॥ श्रुतं शब्दात्मकं गौणं, व्युत्पत्त्यर्थात्तु (थे तु) लक्षणे ॥ ६ ॥ श्रुतानुसारि ज्ञानं श्रुतं, तदननुसारित्वे सतीन्द्रियमनोजन्यं च ज्ञानं मतिः । एवं च - " इन्दियमणोनिमित्तं, जं विभाणं सुआणुसारेणं ।। णिययत्थुत्तिसमत्थं, तं भावसुअं मई सेसं ॥ १०० ॥ " [ इन्द्रियमनोनिमित्तं यद्विज्ञानं श्रुतानुसारण | निजकार्थोक्तिसमर्थं तद्भावश्रुतं मतिः शेषम् ॥ ] इत्यत्र इन्द्रियमनोनिमित्तमिति विशेषणं शेषमित्यत्र योज्यं श्रुतानुसारिवस्यैव श्रुतलक्षणत्वे निजकार्थेक्तिसमर्थत्ववत्तस्य स्वरूपविशेषणत्वेनाऽव्यावर्त्तकत्वात् श्रुताननुसारित्वस्यावध्यादाव|तिप्रसक्तत्वेन तद्वारणाय मतिलक्षणे तु तदुपयुक्तमिति, अथ किं तत् श्रुतानुसारित्वं न तावच्छन्द जन्यत्वं शब्दावग्रहादीनामपि तथात्वात्, नापि तद्धीजन्यत्वं तदनुव्यवसायेऽतिव्याप्तेः, नाऽपि पदजन्यपदार्थोपस्थितिजन्यत्वं शाब्दातिरिक्त श्रुतज्ञानाऽव्याप्तेः, For Private And Personal Use Only Acharya Shal Kalasagarsun Gyanmandir माध्यसंवादेन | मतिश्रुतयोः स्वाम्यादि साधर्म्याद भेदेऽपिलक्षणादिकतो भेद:, मतिश्रुतबोलक्षणभेदनिरूपणं, श्रतानुसारिवे प्रश्नश्व ||
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy